SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ = = = = = 113 तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेभोग आत्मनो युज्यते कथम् ॥ २६ ॥ A देहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः ॥ २७ ॥ पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ २८ ॥ विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते। प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ २९ ॥ & प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते। मुक्तैरतिप्रसङ्गाच्च न वै भोगः कदाचन ॥३० | न च पूर्वस्वभावत्वात्स मुक्तानामसङ्गतः । स्वभावान्तरभावे च परिणामोऽनिवारितः ॥३१॥ है। देहात्पृथक्त्व एवास्य न च हिंसादयः क्वचित्। तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभः॥ ३२ | बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते । यमादि तदभावे च सर्वमेव ह्यपार्थकम् ॥३३ आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन। बध्यते मुच्यते वापि प्रकृतिः स्वात्मनति चेत् ॥ ३४ ॥ एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा। तस्याः क्रियान्तराभावाद्वन्धमोक्षौ सुयुक्तितः॥ ३५ ॥ मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत । स्वरूपविगमापसेस्तथा तन्त्रविरोधतः ॥३६॥ = = = = = = Jain Education For Personal & Private Use Only Mww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy