________________
107
RSSC
CERCRARSERICA
है हिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत् स्थितिः। कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षतिः॥ ४१ | तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः । कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः ॥४२
तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम् । अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि ॥ ४३ मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं स च । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः ॥ ४४ एवं वेदविहितापि हिंसा पापाय तत्त्वतः । शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ॥४५॥ न हिंस्यादिह भूतानि हिंसनं दोषकृन्मतम् । दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः ॥४६ ॥ ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस्तु चोदिते।न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ॥४७॥ एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा । ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात् ॥४८॥ अन्येषामपि बुद्धयैवं दृष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः ॥४९॥ क्लिष्टं हिंसाद्यनुष्ठानं न यत्तस्यान्यतो मतम् । ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः॥५०॥ अनादिकर्मयुक्तत्वात्तन्मोहात्सम्प्रवर्तते । अहितेऽप्यात्मनः प्रायो व्याधिपीडितचित्तवत् ॥ ५१ ॥
-AA%
Jain Education in
For Personal & Private Use Only
Nw.jainelibrary.org