________________
82-%
A
शास्रवातो समुच्चयः॥
॥ द्वितीयः स्तबकः॥ विशिष्ट चार्वाकमत खण्डनम् ॥
॥५५॥
4
106 ॥४॥|| अगम्यगमनादीनां धर्मसाधनता क्वचित् । उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुध्यते ॥३०॥ 1. स्वधर्मोत्कर्षा(र्षणा)देव तथा मुक्तिरपीप्यते । हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते ॥ ३१ ॥
माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना । साध्यते तत्परं येन तेन दोषो न कश्चन ॥३२॥ 1 एतदप्युक्तिमात्रं यदगम्यगमनादिषु । तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते ॥३३॥
3) अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः । विशुद्धभावनाभ्यासात् तन्माध्यस्थ्यं परं यतः ॥ ३४ ॥ Pal यावदेवंविधं नैतत्प्रवृत्तिस्तावदेव या। साऽविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् ॥३५॥ | नाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्तनात् । सर्वत्र भावाविच्छेदादन्यथागम्यसंस्थितिः ॥ ३६ ॥
तच्चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः। सम्भाव्येत परं ह्येतद्भावशुद्धेर्महात्मनाम् ॥ ३७ ॥ २ संसारमोचकस्यापि हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः॥ ३८ ॥ | मुक्तिः कर्मक्षयादेव जायते नान्यतः क्वचित् । जन्मादिरहिता यत्तत्स एवात्र निरूप्यते ॥ ३९ ॥ हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा । अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु ॥ ४० ॥
ARCRACTORS
%
*
| ॥ ५५॥
Jain Education
For Personal & Private Use Only
www.jainelbrary.org