________________
105 अत्रापि ब्रुवते केचित्सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या किलैतदवसीयते ॥ १९ ॥ तयाहु शुभात्सौख्यं तद्बाहुल्यप्रसङ्गतः । बहवः पापकर्माणो विरलाः शुभकारिणः ॥२०॥ न चैतदृश्यते लोके दुःखबाहुल्यदर्शनात्।शुभात्सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः॥ २१ ॥ अन्ये पुनरिदं श्राद्धा ब्रुवत आगमेन वै । शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित् ॥ २२ ॥ अतीन्द्रियेषु भावेषु प्राय एवंविधेषु यत् । छद्मस्थस्याविसंवादि मानमन्यन्न विद्यते ॥ २३ ॥ यच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् । क्वचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति ॥ २४ ॥ सर्वत्र दर्शनं यस्य तद्वाक्यात् किं न साधनम् । साधनं तद्भवत्येवमागमात्तु न भिद्यते ॥ २५ ॥ अशुभादप्यनुष्ठानात् सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा सा तथाविधकर्मणः ॥ २६ ॥ ब्रह्महत्यानिदेशानुष्ठानाद्ग्रामादिलाभवत् । न पुनस्तत एवैतदाममादेव गम्यते ॥ २७ ॥ प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः । तथानाप्तप्रणीतत्वादागमत्वं न युज्यते ॥ २८ ॥ दृष्टेष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता । नियमाद्गम्यते यस्मात्तदसावेव दृश्यते ॥ २९ ॥
१०
Jan Education
For Persons & Private Lise Only
www.jainelibrary.org