SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ॥४॥ श्री शास्त्रवार्ता समुच्चयः॥ ॥५२॥ AAAAACAॐ 104 नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदार्शभिः॥ ७६ ॥ ॥प्रथम: नाभावो भावमाप्नोति शशशृङ्गे तथागतेः । भावो नाभावमेतीह दीपश्चेन्न स सर्वथा ॥७७ ॥ स्तबकः॥ एवं चैतन्यवानात्मा सिद्धः सततभावतः । परलोक्यपि विज्ञेयो युक्तिमार्गानुसारिभिः ॥ ७८ ॥ चार्वाकमत लखण्डनम् ॥ | सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम । अस्त्येव दर्शनं स्पष्टमहम्प्रत्ययवेदनात् ॥ ७९ ॥ | भ्रान्तोऽहं गुरुरित्येष सत्यमन्यस्त्वसौ मत; । व्यभिचारित्वतो नाऽस्य गमकत्वमथोच्यते ॥ ८ ॥ | प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः। प्रत्यक्षाभासमन्यच्चेव्यभिचारि न साधु तत् ॥ ८१ ॥ अहम्प्रत्ययपक्षेऽपि ननु सर्वमिदं समम् । अतस्तद्वदसौ मुख्यः सम्यक् प्रत्यक्षमिष्यताम् ॥ ८२ ॥ गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात् । भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु ॥८३ ॥ आत्मनात्मग्रहोऽप्यत्र तथानुभवसिद्धितः । तस्यैव तत्स्वभावत्वान्न तु युक्त्या न युज्यते ॥ ८४ ॥ न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते । दानादिबुद्धिकालेऽपि तथाऽहङ्कारवेदनात् ॥५॥ आत्मतात्मग्रहे तस्य तत्स्वभावत्वयोगतः । सदैवाग्रहणं ह्येवं विज्ञेयं कर्मदोषतः ॥८६॥ ॥५२॥ Jain Education 4 For Personal & Private Use Only X ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy