SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 103 4%A4% CANARAANAAKAA% मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन तन्न धर्मादि नान्यथा ॥६५॥ न च लावण्यकार्कश्यश्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव सङ्गतेः ॥ ६६ ॥ &न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः । अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ ६७ ॥ न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रमा ॥६८॥ तेन तद्भावभावित्वं न भूयो नलिकादिना। सम्पादितेऽप्यतत्सिद्धेः सोऽन्य एवेति चेन्न तत् ॥ ६९ ॥ वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् । अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ॥ ७० ॥ न तस्यामेव सन्देहात्तवायं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥७१ ॥ तद्वैलक्षण्यसंवित्तेर्मातचैतन्यजे ह्ययम् । सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि ॥७२॥ न च संस्वेदजायेषु मात्रभावे न तद् भवेत् । प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् ॥७३॥ इत्थं न तदुपादानं युज्यते तत्कथञ्चन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥७४ ॥ | न तथा भाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति चैकान्ताद्यथाह व्यासमहर्षिः ॥७५ ॥ AA-%84-8488 Jain Education in For Personst & Private Use Only M w .jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy