SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ SAKESEASESIRKAR | काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् ॥ ४३ ॥ प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् । सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा ॥४४॥ असत्स्थूलत्वमण्वादौ घटादौ दृश्यते यथा । तथा सत्येव भूतेषु चेतनापीति चेन्मतिः ॥ ४५ ॥ नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः ॥ ४६॥ | पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः । भवेदुत्पत्तिरवं च तत्त्वसङ्ख्या न युज्यते ॥ ४७ ॥ तजननस्वभावा नेत्यत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः ॥४८॥ न च मूर्ताणुसङ्घातभिन्नं स्थूलत्वमित्यदः । तेषामेव तथा भाबो न्याय्यं मानाविरोधतः ॥ ४९ ॥ | भेदे तददलं यस्मात् कथं सद्भावमश्नुते । तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥ ५० ॥ 2 न चैवं भूतसङ्घातमात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र तद्वत्तद्भावसङ्गतः ॥५१॥ 1 एवं सति घटादीनां व्यक्तचैतन्यभावतः । पुरुषाद्य(न)विशेषः स्यात्स च प्रत्यक्षबाधितः॥ ५२ ॥ अथ भिन्नस्वभावानि भूतान्येव यतस्ततः । तत्सङ्घातेषु चैतन्यं न सर्वेष्वेतदप्यसत् ॥ ५३ ॥ Jain Education For Personal & Private Lise Only Almww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy