________________
महा
ननविधिः
। १२॥
SAUGAAAAAACAll
ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धुसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥६॥ धनदं प्रति
दिननाथलक्षसमदीप्तिदीपिताखिलदिग्विभागमणिरम्यपाणियुम् ।
सदगण्यपुण्यजनसेवितक्रमो धनदो ददातु जिनपूजने धियम् ॥७॥ ___ ॐ यं यं यं नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलाससंस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशा| ध्यक्षाय कनकांगाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ७ ॥3 ईशानं प्रति--
क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षालितांभोजवर्णः, स्वः सिद्ध्यद्धिप्रगल्भीकरणविरचितात्यन्तसंपातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहनवनज्वालया लालिताङ्गः, शंभुः शं भासमान रचयतु भविनां क्षीणमिथ्यात्वमोहः ॥८॥
ॐ नमः श्री-ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठाय श्वेतवर्णाय गजाजिनावृताय वृषभवाहनाय पिनाकशूलधराय श्री-ईशान सायुध सबाहन सपरिच्छद इह० शेष पूर्ववत् ॥८॥ ब्रह्माणं प्रति
उद्यत्पुस्तकशस्तहस्तनिवहः सन्न्यस्तपापोद्भवः, शुद्धध्यानविधतकर्मविकलो लालित्यलीलानिधिः । वेदोच्चारविसारिचारुखदनोन्मादः सदा सौम्य, ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद् भव्य समस्तं जगत् ॥९॥
BARSHASABRERSITORSHASTROR
द्वितीयदिने प्रातः करणीयः
।। ६२ ॥
Jain E
ernational
For Personal & Private Use Only
linelibrary.org