SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः । परमहितेभ्यो भगवन्तः साधव इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु० शेषं पूर्ववत् इति साधुपूजा ॥ अथ पञ्चपरमेष्ठिनां परिपिण्डितपूजा ॐ नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वदर्शिभ्यः सर्वहितेभ्यः सर्वदेभ्यः ॐ नमो भगवद्भ्यः सिद्धेभ्यो | भगवद्भ्य आचार्येभ्यो भगवद्भ्य उपाध्यायेभ्यो भगवद्भ्यः साधुभ्यो भगवन्तः पञ्चपरमेष्ठिनः इह शान्तिकपूजामहोत्सवे सातिशयाः सप्रातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवासुरनराः प्रसीदन्तु इदमयं पाद्यं गृह्णन्तु २, गन्धं गृ० २, पुष्पं गृ० २, धूपं गृ०२, दीपं गृ० २, अक्षतान् गृ० २, नैवेद्यं गृ. २, सर्वोपचारान् गृ. २, शान्तिं कुर्वन्तु २, तुष्टिं कु०२, पुष्टिं कु. २, ऋद्धिं कु. २, वृद्धिं कु. २, सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा ॥ अनेन पञ्चपरमेष्ठिनां परिपिण्डितपूजा ॥ एवं पंचपरमेष्ठिपूजनं विधाय पञ्चहस्तवस्त्राच्छादनम् ॥ इत्याधपीठम् ॥ (आचार दि० पृ० १५९ तमे)। अथ द्वितीयपीठे दशदिक्पालपूजनम् ॥ पुष्पाञ्जलिं गृहीत्वा वृत्तं पठेत् दिक्पालाः सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं, शत्रं हस्तगतं विधाय भगवत्स्नात्रे जगदुर्लभे । आनन्दोल्बणमानसा बहुगुणं पूजोपचारोच्चयं, सन्ध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥१॥ अनेन वृत्तेन दिक्पालबलये पुष्पाञ्जलिक्षेपः। तत इन्द्रं प्रति द्वितीवदिने प्रातः करणीयः Jain Educat i onal For Personal & Private Use Only Horary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy