________________
अर्हन्महापूजनविधिः ।। ४८ ॥
RANASEXAAAAP
इति बिम्बे माल्यारोपणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमाञ्जलिं०-(२०) बहुशोकहरं बहुशोकहरं कलिकालमुदम् कलिकालमुदम् ।
हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥१॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशय वसुसंवलभं वसुसंवलभं परमातिशयम् ॥२॥ अतिपाटवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥३॥ सरमं कृतमुक्तिविलासरमं भयदं भयमुक्तमिलाभयदम् । परमं बजनेत्रमिदं परमं भगवन्तमये प्रभुताभगवम् ॥ ४॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्य मुनीशरणम् ।
शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् ॥ ५॥ (जगति.) इति कुसुमाञ्जलिः । ततःआशातना या किल देवदेव, मया त्वदर्चारचनेऽनुपक्ता ।
क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ॥१॥ इति जिनविम्बस्यांजलिना बद्धेनापराधक्षामणम् । पुनः शक्र. ऊर्ध्वाः धूपः ।। पुनः कुसुमां०-(२१) करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः॥१॥
RECEAE%AAAAAE
प्रथमदिने मायाम करणीयः
॥४८॥
Jain Educat l
aboral
For Personal & Private Use Only
library.org