________________
अर्हन्महापूजन विधिः
।। ४५ ।।
Educational
क्षणनतताडनमर्दनलक्षणं, किमपि कष्टमवाप्य तितिक्षितम् ।
त्रिभुवनस्तुतियोग्ययदक्षतै - स्तव तनुष्व जने फलितं हि तत् ॥ १ ॥ इति विक्षतारोपणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा - (१७) तारं तारंगमलनैः स्यादवतारं सारं सारंगेक्षणनार्यक्षतसारम् |
कामं कामं घातितवन्तं कृतकामं, वामं वामं द्रुतमुज्झितगतवामम् ॥ १ ॥
देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्ता वेगं द्रुतभावम् ।
नारं नारं शुद्धभवन्तं भुवनारं, मारं मारं विश्वजयं तं सुकुमारम् || २ ||
देवं देवं पादतलाल नरदेवं, नाथं नाथं चान्तिकदीप्यच्छुरनाथम् ।
पार्क पार्क संयमयन्तं कृतपार्क, वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ॥ ३ ॥ कारं कारं भाविरसानामुपकारं काम्यं काम्यं भाविरसानामतिकाम्यम् ।
जीवं जीवं भाविरसानामुपजीवं, वन्दे वन्दे भाविरसानामभिवन्दे ॥ ४ ॥
सर्वैः कार्यैः सङ्कुचरत्नं कुलरत्नं, शुद्धमूर्त्या भाविवितानं विवितानम् ।
वन्दे जातत्राससमाधिं ससमाधिं, तीर्थाधीशं सङ्गतसङ्गं गतसङ्गम् ।। ५ ।। (मत्तमयूर ० )
For Personal & Private Use Only
प्रथमदिने मध्वाने करणीयः
॥ ४५ ॥
www.jainelibrary.org