________________
अहन्महापूजनविधिः
SPECICIRECRUGARCAKACREAS
अमृतरचितभिक्षा यस्य वृत्तित्रतादो-रमृतममृतसंस्थस्यार्चनायास्तु तस्य ॥१॥ (मालिनी०) इति जलपूजा। पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपश्च । पूनः कुसुमाञ्जलिं गृहीत्वा-(१६) विश्वेशः क्षितिलसमानमानमान:, प्रोद्याति मरुदुपहारहारहारः।
संत्यक्तप्रवरवितानतानतानः, सामस्त्याद्विगतगानगानगानः ॥ १ ॥ विस्फर्जन्मथितविकासलासलासः, संक्षेपक्षपितविकारकारकारः।।
सेवार्थव्रजितविकालकालकाल-चारित्रक्षरितनिदानदानदानः ॥ २ ॥ पूजायां प्रभवदपुण्यपुण्यपुण्य-स्तीर्थार्थ विलसदगण्यगण्यगण्यः।
सध्यानः स्फुरदवलोकलोकलोको, दीक्षायां हतभावजालजालजालः ॥३॥ स्मृत्यैव क्षतकवीरवीरवीरः, पादान्तप्रतिनतराजराजराजः।
सद्विद्याजितशतपत्रपत्रपत्रः, पार्श्वस्थप्रवरविमानमानमानः ॥ ४॥ नेत्रश्रीजितजलवाहवाहवाहो, योगित्वामृतघनशीतशीतशीतः।
वैराग्यादधृतमुवालवालवालो, नामार्थोस्थितमुदधीरधीरधीरः ॥ ५॥ (प्रहर्षिणी०) इति कुसुमाञ्जलिः । ततोऽक्षतान् गृहीत्वा
AAAAAAARICA
प्रथमदिने मध्याहने करणीयः
Jain Educ
a
tional
For Personal & Private Use Only
ollelbrary.org