________________
अहन्महाजनविधिः
इति कुसुमाञ्जलिक्षेपः। विभूषणोऽप्यद्भुतकान्तविक्रमः, सुरूपशाली स्तुतभीरुविक्रमः ।
जिनेश्वरो भात्यनघो रविभ्रमः, प्रमाथकारी महसातिविभ्रमः ॥१॥ इति बिम्बात् पुष्पालङ्कारावतारणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमां०-(९) प्रासङ्गताप्तं जिननाथचेष्टितं, प्रासङ्गमत्यदभुतमोक्षवर्मनि ।
प्रासङ्गतां त्यक्तभवाश्रयाशये, प्रासजवीराधभिदे नमांसि ते ॥१॥ कल्याणकल्याणकपञ्चकस्तुतः, संभारसंभारमणीयविग्रहः ।
सन्तानसन्तानवसंश्रितस्थितिः, कन्दर्पकन्दर्पभराज्जयेज्जिनः॥२॥ विश्वान्धकारककरापवारणः, क्रोधेभविस्फोटकरापवारणः ।
सिद्धान्तविस्तारकरापवारणः, श्रीवीतरागोऽस्तु करापवारणः ॥ ३ ॥ संभिन्नभिन्ननयप्रमापणः, सिद्धान्तसिद्धान्तनयप्रमापणः।
देवाधिदेवाधिनयप्रमापणः, संजातसंजातनयप्रमापणः ॥४॥ कालापयानं कलयत्कलानिधिः, कालापरश्लोकचिताखिलक्षितिः।
कालापवादोज्झितसिद्धिसंगतः, कालापकारी भगवान् श्रियेऽस्तु नः ।। ५॥ (इन्द्रवंशा०)
प्रथमदिने मध्याह्ने करणीयः
॥ ३७ ॥
For Personal & Private Use Only
www.jainelibrary.org