________________
अहन्महापूजनविधिः
ARRRRRORE
इति कुसुमाञ्जलिः । ततो मृगमदलेपं गृहीत्वा-- श्रितफणिपतिभोगः क्लप्त सर्वागयोगः श्लथितसदृढरोगः श्रेष्ठिनां सोपभोगः।
सुरवपुषितरोगः सर्वसंपनभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः॥१॥ इति बिम्बे मृगमदलेपः । पुनः । शक्रस्तवः । ऊधिो० वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(७) यशश्चारशुभीकृतानेकलोका, सुसिद्धान्तसंतर्षितच्छे कलोकः ।
महातच विज्ञायिसंबिकलोकः प्रतिक्षिप्तकर्मारिवैपाकलोकः॥१॥ विमानाधिनाथस्तुतांघ्रिद्वयश्री-विमानातिरेकाशयः काशकीर्तिः।
विमानाप्रकाशैर्महोभिः परीतो, विमानायिकैर्लक्षितो नैव किंचित् ॥२॥ क्षमासाधनानन्तकल्याणमाल:, क्षमासजनानन्तबन्धांघ्रियुग्मः।
जगद्भावनानन्तविस्तारितेजाः, जगद्व्यापनानन्तपूः सार्थवाहः ॥३॥ वपुः सङ्करं सङ्करं खंडयन्ति, महासंयम संयम संतनोति ।
कलालालसं लालसं तेजसे तं, सदा भावनं भावनं स्थापयामि ॥४॥ विशालं परं संयमस्थं विशालं विशेष सुविस्तीर्णलक्ष्मी विशेषम ।।
नयानन्दरूपं स्वभक्तानयानं, जिनेशं स्तुतं स्तौमि देवं जिनेशम् ॥५।। (भुजङ्गप्रयात०)
प्रथमदि मध्याह्ने करणीयः
Jain Educat
i
onal
For Personal & Private Use Only
www.jainelibrary.org