________________
अर्हन्महापूजन विधिः ॥ ३३ ॥
SHARELA
इति वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः। ततः कर्पूरं गृहीत्वा-- निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियताकरेण । गुणैस्त्वदीयातिशयानुकारी नवाङ्गमागच्छतु देवचन्द्रः॥१॥ बिम्बे कर्पूरारोपणम् । ततः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(५) संसारवारिनिधितारण देवदेव ! संसारनिर्जितसमस्तसुरेन्द्रशैल ।
संसारबन्धुरत या जिनराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥१॥ रोगादिमुक्तकरणप्रतिभाविलास कामप्रमोदकरणव्यतिरेकघातिन् ।।
___षष्ठाष्टमादिकरणप्रतपप्रवीण मां रक्ष पातकरणश्रमकीर्णचित्तम् ॥२॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्रक्षितीश्वरसुरेश्वरसद्विलासम् ।
उत्पन्न केवलकलापरिभाविलासं ध्यानाभिधानमकरुड्वदनाविलासम् ॥३॥ गम्यातिरेकगुणपापतरावगम्या न व्याप्नुते विषयराजिरपारनव्या ।
सेवाभरेण भवतः प्रकटेरसेवा तृष्णा कुतो भवति तुष्टिमतां च तृष्णा ॥४॥ वन्दे त्वदीयवृषदेशनसन देव जीवातुलक्षितिमनन्तरमानिवासम् ।
आत्मीयमानकृतयोजनविस्तराढ्यं जीवातुलक्षितिमनन्तरमाविलासम् ॥५॥ (वसन्ततिलका०)
VARACIAAAAAA
TED
प्रथमदिने मध्याहने करणीयः ॥ ३३ ॥
Educat
onal
For Personal & Private Use Only
Mammemorary.org