________________
अर्हन्महापूजनविधिः
॥३०॥
CORRECER-CA47ECE
ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात , प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजाक्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवतिजराकष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ १ ॥ अनेन स्रग्धरावृत्तेन सर्वकुसुमांजल्यन्तरालेषु बिम्बस्य धूपदानम् । पुनः कुसुमाञ्जलि गृहीत्वा--(२) कल्पायुः स्थिति कुंभकोटिविटपैः सर्वैस्तुरापाइगणैः, कल्याणप्रतिभासनाय विततप्रव्यक्तभक्त्यानतः । कल्याणप्रसरैः पयोनिधिजलैःशक्त्याभिषिक्ताश्च ये, कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥१॥ रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावली, विच्छेदादपविग्रहः प्रतिदिन देवासुरश्रेणीभिः । सम्यक् चर्चितविग्रहः सुतरसा निधूतमिथ्यात्वहक, तेजः क्षिप्तपविग्रहः स भगवान् भूयाद् भवोच्छित्तये ॥२॥ संक्षिप्ताश्रवविक्रियाक्रमणिकापर्युल्लसत्संवरं, पण्मध्यप्रतिवासिवैरिजलधिप्रष्टंभने संवरम् । उद्यकामनिकामदाहहुतभुगविध्यापने संवरं वन्दे श्रीजिननायकं मुनिगणप्राप्तप्रशं संवरम् ॥३॥ श्रीतीर्थेश्वरमुत्तमै निजगुणैः संसारपाथोनिधेः, कल्लोलप्लबमानवप्रवरता सन्धानविध्यापनम् । बन्देऽनिन्द्यसदागमार्थकथनप्रौढप्रपंचैः सदा, कल्लोलप्लबमानवप्रवरता सन्धानविध्यापनम् ॥ ४॥ स्नात्रं तीर्थपतेरिदं सुजनताखानिः कलालालसं, जीवातुर्जगतां कृपाप्रथनकृत् क्लुप्तं सुराधीश्वरैः । अंगीकुर्म इदं भवाच बहुलस्फुतः प्रभावैनिः , स्नात्र तीर्थपतेरिदं सुजनताखानिः कलासालसम् ॥५॥
(शार्दूलः)
RECTREAUCROR-
प्रथमदिने मध्याहने करणीयः
CACK-c
Jain Educa
For Personal & Private Use Only
library.org