________________
महापूजन विधिः
॥ २९ ॥
शुक्लं शुक्लं च किंचिञ्चिदधिगमसुखं सत्सुखं स्नात्रमेत
नन्द्यान्नन्द्यात् प्रकृष्टं दिशतु शमवतां सन्निधानं निधानम् ॥ ३ ॥ विश्वान् संभाव्यलक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसा
मासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे ।
भावा निर्मुच्य शोच्यान जनि जिनपतिर्यः समायोगयोगी,
तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मा प्रणाशः ॥ ४ ॥
नालीकं यन्मुखस्योपमितिमलभत् क्वापि वार्तान्तराले,
नालीकं येन किंचित् प्रवचन उदितं शिष्यपर्वत्समक्षम् ।
नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं,
नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥ ५ ॥ ( धरा० ) अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः । ततश्चन्दनं गृहीत्वा -
फणिनिकर विवेष्टनेsपि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमर्हतोऽर्चने स्युः ॥ १ ॥ अनेन वृत्तेन चन्दनचर्चनम् । ततः शक्रस्तवपाठः । ततो धूपं गृहीत्वा --
For Personal & Private Use Only
ARAK
प्रथमदिने
मध्याहूने
करणीयः
॥ २९ ॥
library.org