________________
महापूजनविधिः
॥ २८ ॥
अथ पञ्चविंशतिकुसुमाञ्जलयः
( प्रथमदिने मध्याहने पूर्वं पृष्ठ २ तः पृष्ठ ८ इति जिनपूजनम् । तत्पर्यतं पूजनविधिं विधाय तस्पश्चात् कुसुमाञ्जलिक्षेपं विदध्यात् )
ततः श्राद्धः स्नानपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शुचिवस्त्रधारी कङ्कणस्वर्णमुद्रांकितहस्तो जिनोपवीतोत्तरासंगधरः उत्तरासंगवसनेन मुखमाच्छाद्य चलस्थिरप्रतिमाया अग्रतः स्थित एकाकी द्वित्रिचतुष्पंचयुतो वा सर्वैः समं करसंपुटे कुसुमाञ्जलिं निधायेति पठेत्
Jain Educational
लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षोत्कर्षैराकृष्यमाणा करतलमतुलारोहमारोहति स्म ।
शश्वद्विश्वातिविश्वोपशम विशदतोद्भासविस्मापनीयं स्नात्रं सुत्रामयात्राप्रणिधिजिनविभोर्यत्समारब्धमेतत् ॥ १ ॥ कल्याणोल्ल(सलास्यप्रसृमरपरमानन्दकन्दायमानं मन्दामन्दप्रवोधप्रतिनिधिकरुणाकारकं दायमानम् । स्नात्रं श्रीतीर्थ भर्तुर्घनसमयमिवात्मार्थकं दायमानं दद्याद् भक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥ २ ॥ देवादेवाधिनाथप्रणमननवनानन्तसानन्तचारि, प्राणप्राणावयानप्रकटितविकटव्यक्तिभक्तिप्रधानम् ।
For Personal & Private Use Only
प्रथमदिने प्रातः करणीयः
॥ २८ ॥
library.org