________________
अर्हन्महापूजनविधिः ॥ २२ ॥
ध्वजपटकृतकीर्तिस्फूर्तिदीप्यद्विमान-प्रसमरबहुवेगत्यक्तसर्वोपमान ।
इह जिनपतिपूजासन्निधौ मातरिश्चन् , नय नय समुदायं मध्यबाह्यातपानाम् ॥१॥ ॐ वायो ! इह० शेषं पूर्ववत् ॥६॥ ततः कुवेरं प्रति- (बसन्ततिलकापाठ:-)
कैलासवास विलसत्कमलाविलास, संशुद्धहास कृतदोस्थ्यकथानिरास ।
श्रीमत्कुबेर भगवन् स्नपनेऽत्र सर्व-विनं विनाशय शुभाशुभ शीघ्रमेव ॥१॥ ॐ कुबेर । इह० शेषं पूर्ववत् ॥ ७॥ ईशानं प्रति- (वसन्ततिलका-)
गंगातरंगपरिखेलनकीर्णवारि-प्रोद्यत्कपर्दपरिमण्डितपार्श्वदेशम् ।
नृत्यं जिनस्नपनहृष्टहृदः स्मरारे-र्विघ्नं हरतु सकलस्य जगत्त्रयस्य ॥ १॥ ॐ ईशान ! इह. शेषं पूर्ववत् ॥ १ ॥ ततो नागान् प्रति- (वैतालीयपाठः-)
फणिमणिमहसा विभासमानाः कृतयमुनाजलसंधयोपमानाः ।
फणिन इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥१॥ ॐ नागा ! इह० शेषं पूर्ववत् ॥९॥ ब्रह्माणं प्रति - ( द्रुतविलम्बितवृत्तम्-)
विशद पुस्तकशस्तकरद्वयः प्रथितवेदनया प्रमदप्रदः । भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं दृहिणो विभुः ॥ १॥
BABASIRSARASHARAD
प्रथमदिने प्रातः करणीयः
॥२२॥
Jain Educa
For Personat & Private Use Only
www.jainelibrary.org