________________
महा
पूजनविधि
॥ २० ॥
शान्तिकपौष्टिकप्रतिष्ठोपयोगितया वृद्धस्नात्रविधौ कथयिष्यते ॥ अर्हतु श्वेताम्बरमते पंचामृतस्नात्रविधिः शान्तिकादिषु भवति, नित्यपर्व स्नात्रं गन्धोदकैरेव ]
अथ दिक्पालपूजनम् । ततः पुष्पाञ्जलिं गृहीत्वा वृत्तम्-
इन्द्राग्नेयम निर्ऋते जलेश वायो वित्तेशेश्वरभुजगा विरंचिनाथ ।
संघटाधिक नमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरुध्वम् ॥ १॥
इति स्नपनपीठपार्श्वस्थकल्पितदिक्पालपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततस्तत्पीठोपरि दिक्षु यथाक्रमं दिक्पालान् स्थापयेत् । तत एकैकं दिक्पालं प्रति पूजा । तत्र प्रथममिन्द्रं प्रति जलगन्धादि गृहीत्वा शिखरिणीवृत्तपाठः
Jain Education International
सुराधीश श्रीमन् सुतरसम्यक्त्ववस्ते, शचीकान्तोपान्तस्थित विबुधकोट्या नतपद । ज्वलद्वज्राघातक्षपितदनुजाधीशकटक, प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥ १ ॥
ॐ शक्र ! इह जिनस्नात्रमहोत्सवे आगच्छ आगच्छ, इदं जलं गृहाण गृहाण, गन्धं गृहाण गृहाण, धूपं गृहाण गृहाण, दीपं गृहाण गृहाण, नैवेद्यं गृहाण गृहाण, विघ्नं हर हर, दुरितं हर हर, शान्ति कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टि कुरुकुरु, ऋद्धिं कुरु कुरु, वृद्धिं कुरु कुरु स्वाहा । इति जल- गन्ध - पुष्पादिभिरिन्द्रपूजनम् ॥ १ ॥
ततोऽग्निं प्रति-
For Personal & Private Use Only
प्रथमदिने प्रातः करणीयः
|| 20 ||
www.jainelibrary.org