________________
अर्हन्महाचूजनविधिः
ACASACOSKUSLAPISALOSOS
जाते जन्मनि साविष्टपपतेरिन्द्रादयो निर्जरानीत्वा तं करसम्पुटेन बहुभिः सार्धं विशिष्टोत्सवे । शृंगे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे, स्नात्रारंभमुपानयन्ति बहुधा कुंभांबुगंधादिकम् ॥ १ ॥ ( शार्दूल. ) योजनमुखान् रजतनिष्कमयान् मिश्रधातुमृद्रचितान् । दधते कलशान् संख्या तेषां युगषदखदन्तिमिता ॥२॥ (आर्या० ) वापीकूपदाम्बुधितडागपल्लनदी निझरादिभ्यः ।।
आनीतैविमलजलै-स्तानधिकं पूरयन्ति च ते ॥ ३ ॥ ( आर्या० ) कस्तूरीवनसारकुंकुमसुराश्रीखंडककोलकै-हीं वेरादिसुगन्धवस्तुभिरलं कुर्वन्ति तत्संवरम् । देवेन्द्रावरपारिजातबकुरश्रीपुष्प जातीजपा-मालाभिः कलशाननानि दधते संप्राप्तहारसनः॥ ४ ॥
(शार्दूल०) ईशानाधिपतेनिजांककुहरे संस्थापितं सामिनं, सौधर्माधिपनिर्मितादद्भुतचतुःप्रांशूक्षशंगोद्गतः । धारावारिभरैः शशांकविमलैः सिंचन्त्यनन्यातयः शेषाश्चैव सुराप्सर समुदयाः कुर्वन्ति कौतुहलम् ॥ ५॥
__ ( शार्दूल० )
REARRECTORREARS
प्रथमदिने प्रातः करणीयः
॥ १८ ॥
Jain Educ IV
For Personal & Private Use Only
waimelibrary.org