________________
अहन्महा पूजन विधिः
-%
%
GURUNGAR
यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैर्गुम्फितो. मंत्रित्वं बलनाथतामधिकृति स्वर्णस्य कोशस्य च । बिभ्रद्भिः कुसुमाञ्जलिर्विनिहितो भक्त्या प्रभोः पादयोदुःखौघस्य जलाञ्जलिः स तनुतादालोकनादेव हि ॥ १॥ चेतः समाधातुमतीन्द्रियार्थे पुण्यं विधातुं गणनाव्यतीतम् ।
निक्षिप्यतेऽर्हत्प्रतिमापदाग्रे, पुष्पाञ्जलिः प्रोद्गतभक्तिभावैः ॥२॥ - इति पुष्पाञ्जलिक्षेपः । पूर्ववृत्तेन ( कर्पूरसिल्हा० ) धृपोत्क्षेपः । शक्रस्तवपाठश्च । ततः पुष्पादिभिः प्रतिमा पूज्यते । ततः स्नातकलशप्रगुणीकरणम् । ततः कलशास्तु मणि-स्वर्ण-रूप्य-ताम्र-मिश्रधातु-मृन्मयाः स्नात्रचतुष्किकोपरि स्थाप्याः। तेषु सर्वजलाशयोदकानि गंगोदकमिश्राणि निवेशयेत् । चंदन-कुंकुम-कर्पूदादिभिः सुगंधद्रव्यैर्वासयेत् . चंदनादिभिः कुसुममालाभिश्च कलशान् पूजयेत् । जल पुष्पाद्यभिमंत्रणमंत्रास्ते पूर्वोक्ता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोदितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूपितकंठा विशिष्टमणिकनकादिविभूषणास्तदभावे च चंदनकुंकुमकृतविभूषणास्तान् कलशान् करे दधति । ततस्ते स्वस्थप्रज्ञानुसारेण जिनजन्माभिषेकांकितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । तत इमानि वृत्तानि पठेयुः--
प्रथमदिने प्रातः करणीयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org