SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा जनविधि: ॥ १६ ॥ कर्पूरागरु सिल्हचन्दनबलामांसीशशैलेयक - श्रीवास द्रुमधूपरालघुसृणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशांककिरणज्योतिः प्रतिच्छादको धूमो धूपकृतो जगत्त्रयगुरोः सौभाग्यमुत्तु ॥ १ ॥ ( शार्दूल० ) सिद्धाचार्य प्रभृतीन् पंचगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनाचनारचितः ॥२॥ ( आर्या) इति धूपोत्क्षेपः । शक्रस्तवपाठच । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत् -- जन्मन्यनन्त सुख दे भुवनेश्वरस्य, सुत्रामभिः कनकशैलशिरः शिलायाम् । स्नात्रं व्यधायि विविधाम्बुधिकूप वापी - कासारपवलसरित्सलिलैः सुगन्धैः ॥ १ ॥ तां बुद्धिमाधाय हृदीह काले, स्नात्रं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोकाः शुभभावभाजी, महाजनो येन गतः स पन्थाः ।। २ ।। इति पुष्पाञ्जलिक्षेपः । ततः पुष्पसमूहं गृहीला वृत्तम्- परिमलगुणसार सद्गुणाढ्या, बहुसंसक्तपरिस्फुरद्विरेफा । बहुविधबहुवर्णपुष्पमाला, वपुषि जिनस्य भवत्वमोघयोगा ॥ १ ॥ अनेन वृत्तेनापादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणम् । पूर्ववृत्तेन ( कर्पूर० ) धूपोत्क्षेपः । शक्रस्तवपाठश्च । ततः पुष्पाञ्जलिं करे गृहीत्वा शार्दूलोपजाती पठेत् Jain Educational For Personal & Private Use Only प्रथमदिने प्रातः करणीयः ॥ १६ ॥ selibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy