________________
अहमद्दा
पूजनविधिः
॥ १५ ॥
Jain Educat
national
तस्येशितुः प्रतिनिधिः सहजंश्रियादयः पुष्पैर्विनापि हि विना वसनप्रतानैः । गन्धैर्विना मणिमयाभरणैर्विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥ कलशाभिषेकः । ततः पुष्पालंकारादीनामवतारणं, ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयम् — भवाम्बुधितरी सर्वापदां कर्त्तरी, मोक्षाध्यैकविलंघनाय विमला विद्या परं खेचरी । युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्यात्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ॥ १ ॥ परमतरसमागमोत्थ- प्रसृमरहर्षविभासिसन्निकर्षा |
इति प्रतिमायाः
विश्वानंद
जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ २ ॥ पुष्पाञ्जलिक्षेपः । पूर्वोक्तवृत्तेन ( कर्पूर०) धूपोत्क्षेपः शक्रस्तवश्च । पुनः पुष्पांजलिं गृहीत्वा वृत्तद्वयम् — न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिर्न विषमा नृणां दुःस्थता । न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैत्र निःसंशयम् ॥ १ ॥ एतत्तत्त्वं परममसमानन्दसंपन्निदानं, पातालोकः सुरनररहितं साधुभिः प्रार्थनीयम् । सर्वारम्भपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं विश्वभर्तुः ॥ २ ॥ इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं गृहीत्वा वृत्तद्वयं पठेत्
For Personal & Private Use Only
%%%%%%
प्रथमदिने
प्रातः करणीयः ।। १५ ।।
www.brary.org