________________
अहमहा
पूजन विधि :
॥ १११ ॥
शान्तिककारयितारं सपरिवारमभिर्षिचेत् सर्वत्र गृहं ग्रामं च । दिक्पालादि सर्वदैवत - विसर्जनं यान्तु देव० इत्यादि उक्त्वा पूर्ववत् ॥ इति शान्तिकम् || ॥ अथ शान्तिक— फलम् ॥
सर्वत्र गृहिसंस्कारे, सूति–मृत्यु - विवर्जिते, प्रतिष्ठासु च सर्वासु, षण्मास्यां वत्सरेऽथवा ॥|१|| आधे च महाकार्ये, जातेऽप्युत्पातदर्शने, रोग-दोषे महाभीतौ संकटोपगमेऽपिच ॥२॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं शान्तिकं नूनं धीमद्भिगृहमेधिभिः ॥३॥ दुरितानि क्षयं यान्ति, रोगदोषौ च शाम्यतः । दुष्टदेवासुरा मर्त्याः सपत्ना स्युः पराङ्मुखाः ॥४॥ सौमनस्यं शुभं श्रेयः तुष्टिः पुष्टिर्विवर्धते । समीहितस्य सिद्धिःस्याच्छान्तिकस्यविधानतः ||५|| इति सामान्यशान्तिकफलं, शान्तिकान्ते साधुभ्यो विपुलवस्त्रपात्रभोजनोपकरणदानं दद्यात्. अत्र गृहे (अस्मिन् जंबूळीपे ० इत्यादि ) कथिते गृहाधिपस्य नामोच्चारं कुर्यात्, ( आचारदिनकर पृ० २२. तः २२५ ) इति शान्तिककार्ये विशेष पूजा-विधानम् ।
Jain Educational
For Personal & Private Use Only
तृतीय दिने
प्रातः
करणीयः
॥ १११ ॥
inelibrary.org