________________
अहन्महा पूजनविधिः
॥ १०१ ॥
२९
Jain Education International
जिनेन्द्रपादैः परिपूज्य पुष्टै - रतिप्रभावैरपि सन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र- पुरो लिखेन्मङ्गलसत्प्रयोगम् ||२|| पूर्ववत् भद्रासनं लिखेत् । (३) अथ वर्द्धमानसं पुटलेखनवृत्तम् -
पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथाश्च । वर्द्धन्त एव जननायक ते प्रसादात् तद्वर्द्धमानयुगसंपुटमादधामः || ३|| बर्द्धमानयुगसंपुढं लिखेद् । ( ४ ) पुनः पूर्णकलशा लेखनम्-
विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्णकलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः || ४ || पूर्णकलशं लिखेत् । (५) अथ श्रीवत्सलेखनम् --
अन्तः परमं ज्ञानं यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात् प्रकटीभूतं बहिर्वन्दे ||५||
श्रीवत्सं लिखेत् । (६) अथ मत्स्ययुग्म लेखनम् - -
त्वद्वयपञ्चशरकेतनभावक्लृप्तं कर्त्तुं मुधा भुवननाथ निजापराधम् ।
For Personal & Private Use Only
ABSA
तृतीयदिने
प्रातः
करणीयः
॥ १०१ ॥
www.jainelibrary.org