________________
महन्महापूजनविधिः ॥९७॥
Pॐॐॐॐॐॐॐ
इति वृत्तद्वयेन बिम्बस्य भूषणपरिधानम् । ततः फलानि गृहीत्वा--
सम्मालिकेरफलपूररसालजम्बू-द्राक्षापरूपकसुदाडिमनागरः ।
वातामपूगकदलीफलजंभमुख्यैः श्रेष्ठैः फलैजिनपति परिपूजयामः ॥१॥ यत्कृतं स्नात्रपर्यन्ते सुरेन्द्रैः फलढौकनम् । तदिहास्मत्करादस्तु यथासम्पत्तिनिर्मितम् ॥२॥ इति वृत्तद्वयेन बिम्बाग्रे फलढौकनम् । ततोऽक्षतान् गृहीत्वा-- अखंडिताक्षतैः पूजा या कृता हरिणार्हतः । सास्तु भव्यकरांभोज-रत्र बिम्बे विनिर्मिता ॥१॥ इति वृत्तेन बिम्बाग्रेऽक्षतढौकनम् । ततो जलभृतकलशं गृहीत्वा-- निर्झरनदीपयोनिधि-वापीकूपादितः समानीतम् । सलिलं जिनपूजाया-महाय निहन्तु भवदाहम् ॥१॥ मेरुशृङ्गे जगद्भर्तुः सुरेन्ट्रैर्यज्जलार्चनम् । विहितं तदिह प्रौढ-मातनोत्वस्मदादृतम् ॥२॥ इति वृत्तद्वयेन बिम्बाग्रे जलकलशढौकनम् । ततो धूपं गृहीत्वाकर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितैः, सिल्हाद्यैः सुसुगन्धिभिर्बहुतरैबूंपैः कृशान्द्गतः । पातालक्षितिगोनिवासिमरुतां संप्रीणकैरुत्तमै-धूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना ॥१॥
RECER-BOGRAHAN
तृतीयदिने प्रातः करणीयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org