SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अहेन्महापूजनविधिः MORENAA मेरुशृंगे च यत्स्नात्रं, जगभर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत-दस्मत्करनिषेकतः ॥ १९ ॥ इति पठित्वा सर्वैः स्नात्रकारैः ‘समकालं जिनबिम्बे कलशाभिषेकः करणीयः । एवमष्टोत्तरशतादिवारान् (१०८) वारान् कलशाभिषेकः) पुनः पुनरन्तिमं (मेरुशंगे०) श्लोकं पठित्वा जिनस्नात्रं करणीयम् । एवं स्नात्रविधौ निवर्तिते कोमलैधुपचूर्णवासितैर्वर्जिनबिम्ब मार्जयेत् । ततः कस्तूरिका-कुङ्कुम-कर्पूर-श्रीखंडादिविलेपनं गृहीत्वा-- कस्तूरिकाकुङ्कुमरोहणद्रुः कर्पूरककोलविशिष्टान्धम् । विलेपनं तीर्थपतेः शरीरे करोतु सङ्घस्य सदा विवृद्धिम् ॥१॥ तुरापाट् स्नात्रपर्यन्ते विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भूया-दत्र बिम्बेऽस्मदादृतम् ॥ २ ॥ अनेन वृत्तद्वयेन विलेपनं बिम्बस्य । ततः पुष्पमालादि गृहीत्वा-- मालतीविचकिलोज्ज्वलमल्लो कुन्दपाटलसुवर्णसुमैश्च । केतकैविरचिता जिनपूजा मङ्गलानि सकलानि विदध्यात् ॥ १॥ स्न.नं कृत्वा सुराधीशै-जिनाधीशस्य वर्मणि । यत्पुष्पारोपण चक्रे तदस्त्वस्मत्करैरिह ॥२॥ इति वृत्तद्वयेन बिम्बे पुष्पमालादिपूजा । ततो मुकुटकुंडलहारादिभूषणानि गृहीत्वा-- केयूरहारकटकैः पटुभिः किरीटैः सत्कुंडलैर्मणिमयीभिरथोर्मिकाभिः। बिम्बं जगत्त्रयपतेरिह भूषयित्वा पापोच्चयं सकलमेव निकृन्तयामः ॥ १॥ या भूषा त्रिदशाधीशैः स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविभूषणान्विता ॥ २॥ BAAAAAAAA5% वतीयदिने प्रातः करणीयः % % Jain Education For Personal & Private Use Only
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy