________________
अहेन्महापूजनविधिः
MORENAA
मेरुशृंगे च यत्स्नात्रं, जगभर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत-दस्मत्करनिषेकतः ॥ १९ ॥
इति पठित्वा सर्वैः स्नात्रकारैः ‘समकालं जिनबिम्बे कलशाभिषेकः करणीयः । एवमष्टोत्तरशतादिवारान् (१०८) वारान् कलशाभिषेकः) पुनः पुनरन्तिमं (मेरुशंगे०) श्लोकं पठित्वा जिनस्नात्रं करणीयम् । एवं स्नात्रविधौ निवर्तिते कोमलैधुपचूर्णवासितैर्वर्जिनबिम्ब मार्जयेत् । ततः कस्तूरिका-कुङ्कुम-कर्पूर-श्रीखंडादिविलेपनं गृहीत्वा--
कस्तूरिकाकुङ्कुमरोहणद्रुः कर्पूरककोलविशिष्टान्धम् । विलेपनं तीर्थपतेः शरीरे करोतु सङ्घस्य सदा विवृद्धिम् ॥१॥ तुरापाट् स्नात्रपर्यन्ते विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भूया-दत्र बिम्बेऽस्मदादृतम् ॥ २ ॥ अनेन वृत्तद्वयेन विलेपनं बिम्बस्य । ततः पुष्पमालादि गृहीत्वा-- मालतीविचकिलोज्ज्वलमल्लो कुन्दपाटलसुवर्णसुमैश्च । केतकैविरचिता जिनपूजा मङ्गलानि सकलानि विदध्यात् ॥ १॥ स्न.नं कृत्वा सुराधीशै-जिनाधीशस्य वर्मणि । यत्पुष्पारोपण चक्रे तदस्त्वस्मत्करैरिह ॥२॥
इति वृत्तद्वयेन बिम्बे पुष्पमालादिपूजा । ततो मुकुटकुंडलहारादिभूषणानि गृहीत्वा-- केयूरहारकटकैः पटुभिः किरीटैः सत्कुंडलैर्मणिमयीभिरथोर्मिकाभिः।
बिम्बं जगत्त्रयपतेरिह भूषयित्वा पापोच्चयं सकलमेव निकृन्तयामः ॥ १॥ या भूषा त्रिदशाधीशैः स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविभूषणान्विता ॥ २॥
BAAAAAAAA5%
वतीयदिने प्रातः करणीयः
%
%
Jain Education
For Personal & Private Use Only