SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ __ अहन्महापूजनविधिः कस्तूरीकर्पूरकुङ्कममिश्रितेन पाटलादिपुष्पाधिमासितेन निर्मल जलेन पूरणीयाः ततस्तेन निजनिजपरिकरयुताः स्नाकराः पूर्वोक्तवेशभृतो जिनोपवीतोत्तरासङ्गयुजो बधम्मिलाः कृतस्नात्रा द्वादशतिलकांकिताः परमेष्ठिमन्त्रं पठित्वा तान् कलशान् स्वस्वकरयोगन्ति । ततस्तेऽपरे च श्राद्धाः स्वस्त्राभ्यासानुसारेण जिनस्तुतिगर्भ षट्पददरहास्तोत्रादि परिवर्त्तयन्ति । पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति । ततः-- नमो अरिहंताणं, नमोऽर्हसिद्धाचार्योपाध्यायसर्वसाधुभ्यः । पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः, सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यों व्यधुः । तत्कालं तविषेश्वरस्य निविडं सिंहासने प्रोन्नत, वातोदधृतसमुदधुरध्वजपटप्रख्यां स्थितिं व्यानशे ॥१॥ क्षोभात्तत्र सुरेश्वरः असमरक्रोधक्रमाक्रान्तधीः कृत्वालक्तकसिक्तकूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन् प्रयुक्तावधि, ज्ञानात्तीर्थकरस्य जन्म भुवने भद्रंकरं ज्ञातवान् ॥२॥ नम नम इति शब्दं ख्यापयंस्तीर्थनाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघंटा सुररिपुमदमोघा घातिशब्दं चकार ॥३॥ द्वात्रिंशल्लक्षविमानमंडले तत्समा महाघंटाः । ननदुः सुःप्रवर्षा हर्षोत्कर्ष वितन्वन्त्यः॥४॥ SPEASASARAS - तृतीयदिने प्रातः करणीयः y Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy