SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध प्रबंधः ॥३९॥ अथ वर्जनीयवस्तून्याहुःपंचुंबरि चउ विगई हिमविस करगाय सव्वमट्टीय । राईभोयणगंचिय बहुबीयअणंतसंधाणं ॥ घोलवडा वायंगण अमुणियनामाणि फुल्लफलयाणि । तुच्छफलं चलियरसं वज्जह, अभक्खाणि बावीसं ॥ यदुक्तंः--भक्ष्याभक्ष्याणि वस्तूनि, यो न जानाति मूढधीः । स जानाति कथं धर्म, सर्व जीवदयाभयम् ॥ तत्र पंचोदुंबरी-वटपिप्पलप्लक्षकाकोदुंबरीफलरूपा । सूक्ष्मबहुजीवभृतत्त्वात् घर्जनीया। चतस्रो विकृतयः मद्यमांसमधुनवनीतरूपाः सद्यस्तत्रानेकजीवसंमूर्च्छनात, हिमं शुद्धासंख्याऽप्कायरूपत्वात्, विषं जीवघातादि संभवात् । करका अप्कायाऽसंख्यातत्वात् । मृत्तिका सर्वापि दर्दरादिपंचेन्द्रियप्राणि-उत्पत्तिनिमित्तत्वात् । सर्वग्रहणंखटिकादिनं । रजनीभोजनं-बहुविधजीवहिंसाप्रदं । बहुवीज-पंपोटकादि प्रतिबीजं जीवोपकर्दकत्वम् । अनंतजीववधहेतुत्वात् । संधानबिल्वकादीनां जीवसंसक्तिहेतुत्वात् । घोलवटकानि आमगोरससंपृक्ताद्विदलादिमध्ये सूक्ष्मजीवोत्पत्तेः केवलिदृष्टत्वात् । वृन्ताकानि निद्राबाहुल्यकामोद्दीपनादिदोषदुष्टत्वात् , अज्ञातफलपुष्पाणि नियमभंगसंभवात् , विषफले पुष्पे मृत्युरपि, तुच्छं फलमर्द्धनिष्पन्नं कोमलं बिल्वादिः चलितरसं कुथितान्नपुष्पितौदनादि अद्वयातीतं च दधि वर्जनीयम् , प्राणातिपातादिदोषसंभवात् एतान्यभक्ष्याणि। अथ कर्मतो भोगोपभोगः अंगारकर्म-वनकर्म-शकट-भाटक-दंत-वाणिज्य-लाक्षा-रस-केश-विष-यंत्रपीडा-निलाञ्छनासतीपोष-दव-दानसर शोषाः इति कर्मादानानि वर्जयेत् । तदा राजा श्रीकुमारपालः श्रीगुरुमुखेन परिग्रहप्रमाणं भोगोपभोगव्रतस्याकरोत् अथानर्थदण्डव्रतमाहुः जाणा ॥ ३९ ॥ Jain Educatiemational For Personal & Private Use Only www.jane brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy