________________
कुमार
प्रतिबोध प्रबंधः
॥३९॥
अथ वर्जनीयवस्तून्याहुःपंचुंबरि चउ विगई हिमविस करगाय सव्वमट्टीय । राईभोयणगंचिय बहुबीयअणंतसंधाणं ॥ घोलवडा वायंगण अमुणियनामाणि फुल्लफलयाणि । तुच्छफलं चलियरसं वज्जह, अभक्खाणि बावीसं ॥ यदुक्तंः--भक्ष्याभक्ष्याणि वस्तूनि, यो न जानाति मूढधीः । स जानाति कथं धर्म, सर्व जीवदयाभयम् ॥ तत्र पंचोदुंबरी-वटपिप्पलप्लक्षकाकोदुंबरीफलरूपा । सूक्ष्मबहुजीवभृतत्त्वात् घर्जनीया।
चतस्रो विकृतयः मद्यमांसमधुनवनीतरूपाः सद्यस्तत्रानेकजीवसंमूर्च्छनात, हिमं शुद्धासंख्याऽप्कायरूपत्वात्, विषं जीवघातादि संभवात् । करका अप्कायाऽसंख्यातत्वात् । मृत्तिका सर्वापि दर्दरादिपंचेन्द्रियप्राणि-उत्पत्तिनिमित्तत्वात् । सर्वग्रहणंखटिकादिनं । रजनीभोजनं-बहुविधजीवहिंसाप्रदं । बहुवीज-पंपोटकादि प्रतिबीजं जीवोपकर्दकत्वम् । अनंतजीववधहेतुत्वात् । संधानबिल्वकादीनां जीवसंसक्तिहेतुत्वात् । घोलवटकानि आमगोरससंपृक्ताद्विदलादिमध्ये सूक्ष्मजीवोत्पत्तेः केवलिदृष्टत्वात् । वृन्ताकानि निद्राबाहुल्यकामोद्दीपनादिदोषदुष्टत्वात् , अज्ञातफलपुष्पाणि नियमभंगसंभवात् , विषफले पुष्पे मृत्युरपि, तुच्छं फलमर्द्धनिष्पन्नं कोमलं बिल्वादिः चलितरसं कुथितान्नपुष्पितौदनादि अद्वयातीतं च दधि वर्जनीयम् , प्राणातिपातादिदोषसंभवात् एतान्यभक्ष्याणि।
अथ कर्मतो भोगोपभोगः अंगारकर्म-वनकर्म-शकट-भाटक-दंत-वाणिज्य-लाक्षा-रस-केश-विष-यंत्रपीडा-निलाञ्छनासतीपोष-दव-दानसर शोषाः इति कर्मादानानि वर्जयेत् । तदा राजा श्रीकुमारपालः श्रीगुरुमुखेन परिग्रहप्रमाणं भोगोपभोगव्रतस्याकरोत् अथानर्थदण्डव्रतमाहुः
जाणा
॥ ३९ ॥
Jain Educatiemational
For Personal & Private Use Only
www.jane brary.org