________________
कुमार
प्रतिबोध
॥३६॥
सम्यक्त्वभूषणानि-"स्थैर्य प्रभावना भक्ति."
स्थैर्य जिनधर्मे, प्रभावना अष्टधापावयणी धम्मकही वाई नेमित्तिउ तवस्सीय । विज्जासिद्धोय कवी अट्टेव पभावगा भणिया ॥१॥
___ भक्तिः-विनयवैयावृत्यरूपा कौशलताऽनार्यदेशवार्द्रकुमारोऽभयकुमारेण प्रतिबोधितः। तीर्थसेवा द्रव्यतीर्थ भावतीर्थ च, चैत्यादि द्रव्यतीर्थ, भावतीर्थ ध्यानादि । पंच सम्यक्त्वलक्षणानि "शमसंवेग" क्षमा, संवेगो मोक्षाभिलाषः निर्वेदो भववैराग्यं, अनुकंपा चित्तसार्द्रता, आस्तिक्यं जिनमते दृढनिश्चयः। अथ दूषणानि
____"शंका कांक्षा." अथ सम्यक्त्वाद्विविपरीतं मिथ्यात्वं तत्स्वरूपमाहुः । तत्पंचधा-- "अभिग्गहियं अणभिग्गहिय, तह अभिनिवेसियं चेव । संसइमणाभोगं मिच्छत्तं पंचहा होइ" ॥ आभिग्गहियं किल दिक्खियाण, अणभिग्गहियं च रायाण गुट्ठामाहिलमाईण तं अभिणिवेसियं जाण ॥ संसइयं मिच्छत्तं जा संका जिणवरस्स तत्तेषु । एगेन्दियमाईण तमणाभोगं तु निद्दिढें ॥१॥
इति मिथ्यात्वं तत्र प्रथमं पाखण्डिनां स्वशास्त्रनिरतानां, द्वितीयं सर्वे देवाः सर्वे गुरवः सर्वे धर्माश्च, तृतीयं तत्त्वाऽ तत्त्वज्ञानतोऽपि अभिनिवेशात्परूपणा, चतुर्थ संशयो जीवादितत्त्वेषु अनाभोगिक विवेकविचारशून्यस्यैकेद्रियादेर्वा विशेषज्ञानविकलस्य ।
१ स्थैये प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थ सेवा च पंचाऽस्य भूषणानि प्रचक्षते ॥१६॥ २ शमसंवेगनिर्वेदानुकम्पाऽस्तिक्यलक्षणः । लक्षणैः पंचभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥१५॥ ३ शंकाकांक्षा विचिकित्सा, मिध्यादृष्टिप्रशंसनम् । तत्सत्सवश्च पंचाऽपि, सम्यकत्वं दूषयन्त्यलम् ॥१८॥ यो० द्वि.
SASAKASONAKAKKAKER
॥३६॥
Jan Edisintematonai
For Personal Private Use Only
ww
b
rary.org