SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कूटद्रव्यमिवासारं, स्वमराज्यमिवाफलम् । अनुष्ठानं मनुष्याणां मन्ये, मायाविलम्बिनाम् ॥१॥ नृपाः कूटप्रयोगेण, वणिजः कूटचेष्टितैः । विप्राः कूटक्रियाकाण्डैर्मुग्धं वंचयते जनम् ॥२॥ दंपती पितरः पुत्राः, सोदाः सुहृदो जनाः। ईशा भृत्यास्तथाऽन्येऽपि, माययाऽन्योन्यवंचकाः ॥३॥ मायायां पटवः सर्वे, जलस्थलखचारिणः । देवा मायापराः केपि, नारकाच किमुच्यते ॥४॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं सर्वशास्त्रार्थ-परिनिष्ठितचेतसाम् ॥५॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्नल्पीयोऽपि घिवर्द्धयेत् ॥६॥ मायाप्रतिपक्षऋजुता। __ अथ राजन् ! दशमं धर्मलक्षणं मुक्तिः सा च बाह्याभ्यन्तरवस्तुषु तृण्णाविच्छेदरूपा लोभाभाव इत्यर्थः । यतः-- अहो लोभस्य साम्राज्यमेकच्छत्रं जगत्त्रये । तरवोऽपि निधि प्राप्य, पादैः प्रच्छादयन्ति यत् ॥१॥ भुजंगगृहगोधाऽऽखुमुख्याः पंचेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥२॥ तथा पिशाचमुद्गल-प्रेतयक्षादयोधनं, स्वकीयं परकीयं वाप्यधितिष्टन्ति लोभतः ॥३॥ विमानोद्यानवाप्यादौ, मूञ्छितास्त्रिदशा अपि । त्यक्त्वा तत्रैव जायन्ते, पृथ्वीकायादियोनिषु ॥४॥ परप्रत्यायनासारैः, किंवा शास्त्रसुभाषितैः । मीलितामा विमृशंतु, संतोषास्वादजं सुखम् ।।५।। किमिन्द्रियाणां दमनैः, किं कायपरिपीडनैः । ननु संतोषमात्रेण, मुक्तिस्त्रीसंमुखीभवेत् ॥६॥ Jain Edu emational For Personal & Private Use Only www.alimmlorary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy