________________
नवमे प्राणसंदेहो, दशमे मुच्यतेऽसुभिः । एभिर्दोषैः समाक्रान्तं, जीवलोकं न पश्यति ॥५॥ यस्तपस्वी व्रती मौनी, संवृत्तात्मा जितेन्द्रियः । कलंकयति निःशंकः, स्त्रीसखः सोऽपि संयमम् ॥६॥
अथ राजन् ! पंचमं धर्मलक्षणं अकिञ्चनता - संतोषरूपं धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्रवास्तुनी द्विपाच्चतुःपाच्चेति स्युः नव बाह्याः परिग्रहाः ।
मिच्छत्तं वेतिगं हासाई छक्कगं च नायव्वं । कोहाइण चउकं चउदस अभिन्तरा गंधा ॥ १ ॥ बाह्यानपि हि यः संगान्, न मोक्तुं मानवः क्षमः । सोऽन्तरंगान् कथं क्लीवस्त्यजेदिह परिग्रहान् ||२|| यानपात्रमिवाम्भोधौ, गुणवानपि मज्जति । परिग्रहगुरुत्वेन, संयमी जन्मसागरे ॥ ३ ॥ न यान्ति वायवो यत्र, नाप्यर्केन्दुमरीचयः । आशामहोर्मयः पुंसां, तत्र यान्ति निरर्गलाः || ४ || अधीती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् ॥५॥ वाक्येनैकेन तद्वच्मि, यद्वाच्यं वाक्यकोटिभिः । आशा पिशाची शान्ता चेत्संप्राप्तं परमं पदम् ||६|| एतानि पंच सर्वविरतत्वात् साधूनां महाव्रतान्युच्यन्ते । यदुक्तं-
महत्त्वहेतोर्गुणिभिः श्रुतानि महान्ति मत्वा त्रिदशैर्नुतानि । महासुखज्ञाननिबंधनानि महात्रतानीति सतां मतानि ॥१॥ अथ राजन् षष्ठं धर्मलक्षणम् - तपो बाह्याभ्यन्तरं द्वादशधा । बाह्यं तपः
For Personal & Private Use Only
Jain Educalmational
www.jath
ry.org