________________
कुमार ॥३३॥
प्रतिबोध | प्रबंधः
अन्यैरप्युक्तं
यदा सत्यं वदेद्वाक्यं, मृषाभाषाविवर्जितः । अनवद्यं च भाषेत, ब्रह्म संपद्यते तदा ॥३॥ अथ राजन् तृतीयधर्मलक्षणं अदत्तादानपरिहाररूपं
अयशःपटहं दत्त्वा, भुक्त्वा विविधवेदनाः । इहलोके नरकं यान्ति, परलोकेऽदत्तहारिणः ॥४॥ परद्रव्यं यदा दृष्ट्वा, सकुलेऽप्यथवा रहः । धर्मकामो न गृह्णाति ब्रह्म संपद्यते तदा ॥५॥
___अदत्तदानेन भवेद् दरिद्री, दरिद्रभावात् तु करोति पापं।
पापं हि कृत्वा नरकं प्रयाति, पुनः दरिद्री पुनरेव पापी ॥६॥ अथ राजन् चतुर्थ धर्मलक्षणं-ब्रह्मचर्यरूपं यतःविदंति परमं ब्रह्म यत्समालम्ब्य योगिनः। तद्वतं ब्रह्मचर्य स्यात्, धीरा धौरेयगोचरं ॥७॥
यः स्वदारेषु संतुष्टः, परदारपराङ्मुखः । स गृही ब्रह्मचारी च, मुक्तिमामोति पुण्यवान् ॥८॥ अन्यैरप्युक्तम्एकरात्रोषितस्यापि, या गतिः ब्रह्मचारिणः । न सा क्रतुसहस्रेण, प्राप्तुं शक्या युधिष्ठिर ! ॥१॥ भोगिदष्टस्य जायन्ते, वेगाः सप्तैव देहिनः । स्मरभोगीन्द्रदष्टानां, दश स्यस्ते महाभयाः॥२॥ प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति । स्युस्तृतीये च निश्वासाश्चतुर्थे भजते ज्वरः ॥३॥ पंचमे दहते गात्रं, षष्ठे भुक्तं न रोचते । सप्तमे स्यान्महामूर्छा, उन्मत्तश्च तथाऽष्टमे ॥४॥
॥३३॥
Jan E
tematonai
For Persona & Private Use Only
o
brary.org