SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ शुभभाषाभाषणं वागसंयमः अशुभक्रियानिवृत्तिः शुभप्रवृत्तिः कायसंयमः। इतिप्राणिदयारूपः सप्तदशधा संयमो यतीनामन्यथा यतित्वाऽभावः। अथ राजा गृहस्थानां कथमयं संयमः इत्यपृच्छत् तदा श्रीसूरयः प्राहुः राजन् ! देशतो विरतानां गृहस्थानां देशतः संयमोऽस्तीति श्रूयताम् । यथास्थूला सूहमा जीवा संकप्पारंभओ य ते दुविहा । सावराहनिरवराहा साविक्खा चेव निरविक्खा ॥१॥ . तत्र प्राणिवधो द्विविधो ज्ञेयः स्थूलजीवानां सूक्ष्मजीवानां च । तत्र स्थूला द्वीन्द्रियादयः । सूक्ष्मास्त्वेकेन्द्रियादयो न तु सूक्ष्मनामकर्मोदयवत्तिनस्तेषां व्यापादनाऽभावात् स्वयमायुष्कक्षयेण मरणात् । तत्र गृहस्थानां स्थूलपाणिवधान्निवृत्तिः, न तु सूक्ष्मप्राणिवधात् , पृथ्वीजलानिलादिषु प्रवृतत्त्वादारंभस्तेषां, स्थूलपाणिवधोऽपि द्विविधः आरंभजः संकल्पजश्च । संकल्पान्मारयाम्येनं कुलिङ्गिनमिति मनः संकल्परूपाज्जातः (संकल्पजः) । आरंभजस्तु कृष्यादिषु प्रवृत्तस्य द्वीन्दियादिव्यापादनं तस्मानिवृत्तः शरीरकुटुम्बादिभरणनिर्वाहाऽभावात् । संकल्पजोऽपि द्विविधः सापराधो निरपराधश्च । तत्र निरपराधानिवृत्तिः । सापराधेऽपि यतना विधेया । इति गृहस्थानामपि देशसंयमः । अथ द्वितीयं लक्षणं सत्यं नाम तत्सत्यं दशधा जणवय संमय ठवणा नामे रुवे पडुच्च सचेय । ववहारभावजोगे दशभेउ कम्मसच्चे य ॥१॥ एकत्राऽसत्यजं पापं, पापं निःशेषमेकतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥२॥ दीक्षा भिक्षा गुरोः शिक्षा-ज्ञानं ध्यानं जपस्तपः । सर्व मोक्षार्थिनामेतत् सत्येन सफलीभवेत् ॥३॥ Jain Educa m ational For Personal & Private Use Only www. daryono
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy