________________
शुभभाषाभाषणं वागसंयमः अशुभक्रियानिवृत्तिः शुभप्रवृत्तिः कायसंयमः। इतिप्राणिदयारूपः सप्तदशधा संयमो यतीनामन्यथा यतित्वाऽभावः।
अथ राजा गृहस्थानां कथमयं संयमः इत्यपृच्छत् तदा श्रीसूरयः प्राहुः राजन् ! देशतो विरतानां गृहस्थानां देशतः संयमोऽस्तीति श्रूयताम् । यथास्थूला सूहमा जीवा संकप्पारंभओ य ते दुविहा । सावराहनिरवराहा साविक्खा चेव निरविक्खा ॥१॥
. तत्र प्राणिवधो द्विविधो ज्ञेयः स्थूलजीवानां सूक्ष्मजीवानां च । तत्र स्थूला द्वीन्द्रियादयः । सूक्ष्मास्त्वेकेन्द्रियादयो न तु सूक्ष्मनामकर्मोदयवत्तिनस्तेषां व्यापादनाऽभावात् स्वयमायुष्कक्षयेण मरणात् । तत्र गृहस्थानां स्थूलपाणिवधान्निवृत्तिः, न तु सूक्ष्मप्राणिवधात् , पृथ्वीजलानिलादिषु प्रवृतत्त्वादारंभस्तेषां, स्थूलपाणिवधोऽपि द्विविधः आरंभजः संकल्पजश्च । संकल्पान्मारयाम्येनं कुलिङ्गिनमिति मनः संकल्परूपाज्जातः (संकल्पजः) । आरंभजस्तु कृष्यादिषु प्रवृत्तस्य द्वीन्दियादिव्यापादनं तस्मानिवृत्तः शरीरकुटुम्बादिभरणनिर्वाहाऽभावात् । संकल्पजोऽपि द्विविधः सापराधो निरपराधश्च । तत्र निरपराधानिवृत्तिः । सापराधेऽपि यतना विधेया । इति गृहस्थानामपि देशसंयमः । अथ द्वितीयं लक्षणं सत्यं नाम तत्सत्यं दशधा
जणवय संमय ठवणा नामे रुवे पडुच्च सचेय । ववहारभावजोगे दशभेउ कम्मसच्चे य ॥१॥ एकत्राऽसत्यजं पापं, पापं निःशेषमेकतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥२॥ दीक्षा भिक्षा गुरोः शिक्षा-ज्ञानं ध्यानं जपस्तपः । सर्व मोक्षार्थिनामेतत् सत्येन सफलीभवेत् ॥३॥
Jain Educa
m
ational
For Personal & Private Use Only
www.
daryono