________________
कुमार०
प्रतिबोध
प्रबंधः
॥३२॥
॥ इति भगवद्गीतायाम्-॥ यदा न कुरुते पापं, सर्वभूतेषु दारुणम् । कमणा मनसा वाचा, ब्रह्म संपद्यते तदा ॥१॥ क्षमातुल्यं तपो नास्ति, न सतोषात्परमं सुखम् । न मैत्रीसदृशं दानं, न धर्मोऽस्ति दयासमम् ॥२॥
इति सर्वेषां जीवदया मता । अथ जीवहिंसाभेदानाह । न च हिं जियवहं करणं कारावण अणुमईय जोगेहि कालतियेण ? गुणिउ पाणिवहो दुसयतेयालो । - तत्र पृथिव्यप्तेजोवायुवनस्पति-द्वित्रिचतुःपंचेन्द्रिया इति नवभेदाः मनोवाक्कायैः सह गुणिता जाताः सप्तविंशतिभेदास्ते च करणकारणानुमतिभिर्गुणिता जाता एकाशीतिस्ते चाऽतीतानागतवर्तमानकालत्रयेण गुणिताः जातास्त्रयश्चत्वारिंशत् द्वे शते सब प्राणिवधभेदाः कालत्रयेऽपि हिंसासंभवोऽस्तीति कालत्रयग्रहणं यदुक्तम्
अइय निंदामि पडिपन्नं संवरेमि अणागयं पञ्चक्खामि इति ॥ ___ अथ राजन्नाकर्ण्यतां जीवदयास्वरूपं संयमस्वरूपं च । तथाहि-पृथव्यप्तेजोवायुवनस्पतिद्वित्रिचतुपंचेन्द्रियाणां मनोवाकायकर्मभिः करणकारणानुमतिभिश्च संरंभारंभसमारंभवर्जनमिति नवधा संयमः । पुस्तकवस्त्रपात्रदंडकादीनां यतनया धरणमजीवसंयमः। स्थडिलादिकं चक्षुषा प्रेक्ष्य शयनाशनादि कुर्वीतेति प्रेक्षासंयमः । सावधप्रवृत्तगृहस्थाव्यापारणेनोपेक्षासंयमः । स्थंडिलादौ रजोहरणादिना प्रमृज्य शयनाशनादीनि कुर्वतः प्रमार्जनासंयमः । भक्तपानादिकमनेषणीयमनुपकारि च निर्जन्तुस्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः । मनसोऽशुभपरिणामनिवृत्तिः शुभे प्रवृत्तिः मनःसंयमः । अशुभभाषात्यागः
For Persons & Private Use Only
Jan Education Intematona
ww
b rary.org