SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ॥ अथ धर्मतत्त्वमपृच्छत - श्रीसूरयः प्राहुः ॥ तत्र प्रथमं धर्मलक्षणम् -- श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च । अहिंसालक्षणो धर्मस्तद्विपक्षश्च पातकम् ||१|| वेदादिप्रामाण्येन यद्धिंसा विधीयते तत्तेषां जाडयलिङ्गम् वेदस्यापौरुषेयत्वेनाप्रमाणत्वात् । आप्ताधीनां हिं वाचां प्रमाणता । Jain Education/temational व्यासेनाऽप्युक्तम् दीयते मार्यमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णाति, सर्वो जीवितुमिच्छति ॥ १ ॥ यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुन्धराम् । सागरं रत्नसंपूर्ण, न च तुल्यमहिंसया ||२|| अमेध्यमध्यकीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकांक्षा, तुल्यं मृत्युभयं द्वयोः ॥ ३ ॥ यावंति पशुरोमाणि, पशुगात्रेषु भारत ।। तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ||४|| पृथिव्यामप्यहं पार्थ! वायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ||५|| यो मां सर्वगतं ज्ञात्वा न च हिंसेत्कदाचन । तस्याऽहं न प्रणस्यामि, स च मे न प्रणस्यति ॥६॥ ॥ इति विष्णुवाक्यम् ॥ "यत्र जीवस्तत्र शिव इति" यो वेत्ति भक्तितः । दयां जीवेषु कुर्वाणः स शिवाराधकः स्मृतः ॥ १ ॥ क्व मांसं व शिवे भक्ति, क्व मद्यं क्व भवार्चनम् । मद्यमांसप्रसक्तानां, दूरे तिष्ठति शंकरः ॥२॥ For Personal & Private Use Only www.rary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy