________________
कुमार०
प्रतिबोध प्रबंधः
॥३१॥
सदाचारनिंदकाः कथं ते गुरवः सर्वाभिलाषिणः सर्वभोजिनः
श्रीमहाभारतेऽप्युक्तम्ये शान्तदान्ताः श्रुतिपूर्णकर्णाः, जितेन्द्रियाः, प्राणिवधान निवृत्ताः ।
परिग्रहात्संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥१॥ ततः श्रीहेमसूरयः सभायां गुरुकुगुरुस्वरूपमभिधायाऽवादिषुः--
प्रकाशयन्ति भुवनं, भूयांसो भास्करादयः । हार्द पुनस्तमो हन्ति, गुरुरेव गुणैर्गुरुः॥१॥ अत्रान्तरे कश्चित्पपाठ--- जीवोऽयं विमलस्वभावसुभगः, सूर्योपलस्पर्द्धया । धत्ते संगवशादनेकविकृतीलृप्तात्मरूपस्थितिः॥ यव्यामोति रवेरिवेह सुगुरोः, सत्पादसेवाश्रमम् । तज्जातोर्जिततेजसैव कुरुते, कर्मेन्धनं भस्मसात् ॥१॥
इति श्रुत्वा सर्वेऽपि दानं ददुः। . ॥ इति गुरुतत्त्वं ज्ञेयम् ॥
PRXXXXXXXXXXX
Jain Edous
temational
For Personal & Private Use Only