SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगमेन युक्त्या च, योऽर्थः समभिगम्यते । परीक्ष्य हेमवद्ग्राह्यः, पक्षपातग्रहेण किम् ? ॥३॥ श्रोतव्ये च कृतौ कणों, वाग्बुद्धिश्च विचारणे । यः श्रुतं न विचारत, स कार्य विन्दते कथम् ? ॥४॥ इति श्रीगुरुवचनमाकर्ण्य राजा परापवादभीरुः सर्वदर्शनसंवादेन धर्म जिघृक्षुः सर्वदर्शनविज्ञान पंडितमन्यान् विदुषः | समाहूय सर्वसमक्षं सभायां धर्मस्वरूपं पप्रच्छ । तेपि च यथाज्ञातस्वस्वागमाचारं निजं निजं धर्मस्वरूपं प्ररूपयामासुः, तत्र देवतत्त्वविचारणायां क्रियमाणायां सर्वदर्शनिभिर्नाटयाट्टहाससंगीतरागद्वेषप्रासादकोपजगज्जननस्थेमविनाशादरशस्त्रस्त्रीपरिग्रहादिसकलसांसारिकजंतुजातसाधारणे दैवतस्वरूपे निरूप्यमाणे श्रीगुरवः प्रोचुः--न चैवमर्वाचीनजनैः प्रोच्यमानं परमेश्वरस्वरूपं, यदुक्तम्-- प्रत्यक्षतो न भगवान् वृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः। तेषां स्वरूपगुणमागमसंप्रभावात्, ज्ञात्वा विचारय कोऽत्र परावादः ॥१॥ माया नास्ति जटाकपालमुकुटश्चंद्रो न मुर्दावली। खट्वांगं न च वासुकिन च धनुः शूलं न चोग्रं मुखम् ॥ कामो यस्य न कामिनी न च वृषो, गीतं न नृत्यं पुनः। सोऽयं पातु निरञ्जनो जिनपति-देवाधिदेवः परः॥ राजनैवंविधेऽपि भगवति निर्दोषे जिनेन्द्रे यत्परप्रवादा मत्सरिणः स्युः तत्स्वशासनानुरागेण परशासनाभिमानस्य विजृम्भितम् । इति सर्वसमक्षं वीतरागस्य देवतत्वमवस्थाप्य सर्वेषां स्वरूपज्ञापनार्थ निजां प्रतिज्ञा प्रादुरकार्पः-- इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं, न चाप्यनेकान्तमृते नयस्थितिः ॥१॥ && Jan Eduskelematonai For Personal & Private Use Only www. ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy