SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगमेन युक्त्या च, योऽर्थः समभिगम्यते । परीक्ष्य हेमवद्ग्राह्यः, पक्षपातग्रहेण किम् ? ॥३॥ श्रोतव्ये च कृतौ कणों, वाग्बुद्धिश्च विचारणे । यः श्रुतं न विचारत, स कार्य विन्दते कथम् ? ॥४॥ इति श्रीगुरुवचनमाकर्ण्य राजा परापवादभीरुः सर्वदर्शनसंवादेन धर्म जिघृक्षुः सर्वदर्शनविज्ञान पंडितमन्यान् विदुषः | समाहूय सर्वसमक्षं सभायां धर्मस्वरूपं पप्रच्छ । तेपि च यथाज्ञातस्वस्वागमाचारं निजं निजं धर्मस्वरूपं प्ररूपयामासुः, तत्र देवतत्त्वविचारणायां क्रियमाणायां सर्वदर्शनिभिर्नाटयाट्टहाससंगीतरागद्वेषप्रासादकोपजगज्जननस्थेमविनाशादरशस्त्रस्त्रीपरिग्रहादिसकलसांसारिकजंतुजातसाधारणे दैवतस्वरूपे निरूप्यमाणे श्रीगुरवः प्रोचुः--न चैवमर्वाचीनजनैः प्रोच्यमानं परमेश्वरस्वरूपं, यदुक्तम्-- प्रत्यक्षतो न भगवान् वृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः। तेषां स्वरूपगुणमागमसंप्रभावात्, ज्ञात्वा विचारय कोऽत्र परावादः ॥१॥ माया नास्ति जटाकपालमुकुटश्चंद्रो न मुर्दावली। खट्वांगं न च वासुकिन च धनुः शूलं न चोग्रं मुखम् ॥ कामो यस्य न कामिनी न च वृषो, गीतं न नृत्यं पुनः। सोऽयं पातु निरञ्जनो जिनपति-देवाधिदेवः परः॥ राजनैवंविधेऽपि भगवति निर्दोषे जिनेन्द्रे यत्परप्रवादा मत्सरिणः स्युः तत्स्वशासनानुरागेण परशासनाभिमानस्य विजृम्भितम् । इति सर्वसमक्षं वीतरागस्य देवतत्वमवस्थाप्य सर्वेषां स्वरूपज्ञापनार्थ निजां प्रतिज्ञा प्रादुरकार्पः-- इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं, न चाप्यनेकान्तमृते नयस्थितिः ॥१॥ && Jan Eduskelematonai For Personal & Private Use Only www. ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy