SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कुमार ॥२९॥ अथोभाभ्यां तथा क्रियमाणे धूपधूमान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालाप्रदीपकेषु आकस्मिके प्रकाशे द्वादशा RA)प्रतिबोध प्रबंधः त्ममहिसीव प्रसरति नृपो नयने संभ्रमादन्मृज्य यावदालोकते तावजलाधारोपरि जात्यजांबूनदार्ति चर्मचक्षुषां दुरालोक अप्रतिमरूपं असंभाव्यस्वरूपं तपस्विनमेकमद्राक्षीत । तं पांदागुलीप्रभृतिजटाजूटावधिं करतलेन संस्पृश्य निश्चित्य देवतावतारं पंचांगचुम्बितावनितलं यथाभक्त्या नत्वा भूमानिति विज्ञापयामास "जगदीश ! भवदर्शनात्कृतार्थे मयि आदेशप्रसादात कृतार्थय कर्णयुगलम्" । इति विज्ञप्य तूष्णीस्थिते नृपे तन्मुखादिति गीरभूत । "राजन्नयं महर्षिः सर्वदेवतावतारः अजिह्मपरब्रह्मावलोककरतलकलितमुक्ताफलवत् विज्ञातकालत्रयस्वरूपः । एतदुपदिष्ट एवासंदिग्धो मुक्तिमार्ग" इत्यादिश्य तिरोभूते भूपतो उन्मनीभावं भजन भूपतिं प्रति रेचितप्राणायामपवनः श्लथीकृतासनबंधः श्रीहेमाचार्यो यावदिति वाचमुवाच । तावदिष्टदेवतसंकेतात्यक्तराज्याभिमानोऽनीचपादोऽवधार्यतां अधनोत्थीयतां इति व्याहृतिपरो विनयनम्रमौलियत्कृत्यमादिशेति व्याजहार। अथ तत्रैवं नृपतेर्यावजीवं पिशितमद्यादिनियमं दत्त्वा ततः प्रत्यावृत्तौ क्षमापनीः श्रीअणहिल्लपुरं पत्तनं प्रापतुः। अथ प्रत्यहं राजसभायां विचारेषु जायमानेषु राजा श्रीजिनोक्तं धर्म सत्यतया मन्यमानोऽपि परं निजकुलक्रमायातं धर्म द्विजादीनां लज्जया मोक्तुं न समीहते परापवादभीतः। "कामरागस्नेहरागावीषत्करनिवारणी । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥१॥ कुलक्रमेण कुर्वन्ति, मूढा धर्म कुबुद्धयः । विपश्चितो विनिश्चित्य, स्वचिते तु परीक्षया ॥२॥ Jain Edul H For Persona & Private Use Only t emalionai RIprary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy