SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध प्रबंधः ॥२६॥ न तेषां ब्राह्मणी माता, संस्कारश्च न विद्यते । तपसा ब्राह्मणाः जातास्तस्माज्जातिरकारणम् ॥१७॥ यद्वत्काष्ठमयो हस्ती, यद्वचर्ममयो मृगः । ब्राह्मणस्तु क्रियाहीनत्रयस्ते नामधारकाः" ॥१८॥ इति श्रुत्वा निरुत्तरेषु विप्रेषु प्रमुदितो राजा जातं मनसि स्थैर्य श्रीजिनधर्मे अन्यदा कैश्चिन्मत्सरिभिः प्रोक्तम् “राजनेते मलाविलवस्त्राः स्नानाभावादपवित्रगात्रा राजसभायां स्थातुं नोचिताः" इति श्रुत्वा तत्र सकलराजवर्गसमक्षं श्रीसूरिभिरभिदधे कस्य नामापावित्र्यं शरीरस्यात्मनो वा । यदि शरीरस्य तर्हि सर्वेषां शरीरस्य सप्तधातुमयत्वात् पावित्र्यापावित्र्यविभागः कर्तु केनापि नो पार्यते । आत्मनश्चेत्तयुष्मादृशामनतिशयदृशां प्राकृतपुरुषाणामतीवदुर्लक्षमेव, जलक्षालनकृतं तु यत् पावित्र्यापावित्र्यविवेचनं तन्मूढविस्मापनम् ।। "यदुक्तं-शौचमध्यात्मिकं त्यक्त्वा, भावशुद्वयात्मकं शुभम् । जलादिशौचं यददृष्टं, मूढविस्मापनं हि तत्"॥ कुर्याद्वर्षसहस्राणि प्रत्यहं मजनं महः । सागरेणापि, कृच्छ्रेण, वधको नैव शुद्धथति ॥२॥ चित्तं रागादिभिः क्रान्तमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो, गंगा तस्य पराङ्मुखी ॥३॥ चित्तमंर्तगतं शुद्धं, वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काया, शुद्धो गंगां विनाऽप्यहो४॥ ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातंगा अपि शुद्धयन्ति, न शुद्धिस्तीर्थयात्रया ॥५॥ शृंगारमदनोत्पादं, यस्मात् स्नानं प्रकीर्तितम् । तस्मात्स्नानं परित्यक्तं, नैष्ठिकैब्रह्मचारिभिः ॥६॥ मुखशय्यासनं वस्त्रं, ताम्बूलं स्नानमंडनम् । दंतकाष्ठं सुगंधं च, ब्रह्मचर्यस्य दूषणम् ॥७॥ | सत्यं शौचं तपः, शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पश्चमम्" ॥८॥ SAAMKAXXXXXXXXXXXXXXXXXX ॥२६॥ For Personal & Private Use Only w Jan Education Intematonai prary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy