SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ इति शास्त्रोक्तं युष्माभिरपि किं न दृष्टं वा न श्रुतम् ? येनेयं चर्चा क्रियते । इति निशम्य नृपः सपरिकरः प्रमुदितो ज्ञातः शौचस्य समाचारः प्राह च तदा अहो श्रीहेमसूरीणां स्वपरशास्त्ररहस्यस्मृतिः सदाचारचतुरता च यतः-- एहिरे याहिरां चक्रे, केषां न श्रुतिषु श्रुतम् । परं परिमलस्तस्य विलीनो विमलात्मसु॥१॥ ज्ञातं च जलशौचं मूढजनमनोविस्मापकम् । अथान्यदा मापतिः पप्रच्छ । कयापि युक्त्याऽस्माकमपि यशःप्रसरः कल्पान्तस्थायी भवति इति तदीयां गिरमाकर्ण्य विक्रमार्क इव विश्वस्यानृणकरणात् यद्वा श्रीसोमेश्वरप्रासादं वारांराशितरंगनिकरासन्नांभोभिः शीर्णप्राय युगान्तकीतये समुद्धर इति चन्द्रातपनिभया श्रीहेमचंद्रगिरा उद्वेलप्रमोदांभोधिर्नृपस्तमेव महर्षि पितरं दैवतं गुरुं मन्यमानो नितरां द्विजा. निन्दन तदैव प्रासादोद्धराय दैवज्ञनिवेदिते सुलग्ने तत्र पंचकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् । . अथ सोमेश्वरस्य प्रासादप्रारम्मे खरशिलानिवेशे संजायमाने सति पंचकुलप्रहितवर्द्धापनिकाविज्ञप्तिकां नृपतिः श्रीहेमचन्द्रगुरोरदर्शयत् । अयं प्रासादप्रारंभः कथं निःप्रत्यहं प्रमाणभृभिमधिरोहतीति पृथिवीपरिवृढेनानुयुक्तः श्रीमान् किश्चि दुचितं विचित्य गुरुरुचिवान् । यदस्य धर्मकार्यस्यान्तरायपरिहाराय ध्वजाधिरोपं यावद् ब्रह्मसेवानियमोऽथ मद्यमांससेवानियमः द्वयोरेकतरं किमप्यंगीकुरु । इति तद्वचनमाकर्ण्य नृपतिः मद्यमांसनियममभिलषन् श्रीनीलकंठस्योपरि जलं विमुच्य तमाभग्रहं जग्राह । संवत्सरद्वयेन तस्मिन् प्रासादे कलशध्वजाधिरोपं यावद् गते सति तं नियम मुमुक्षुर्गुरूननुज्ञापयन् तैरुचे यद्यनेन निजकीर्तनेन साधंअर्द्धचन्द्रचूडं प्रेक्षितुमर्हति भवान तद्यात्रापर्यन्ते नियममोचनावसरः इत्यभिधायोत्थिते श्रीहेम Jan E ntematonai For Personal & Private Use Only ww. l ibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy