________________
अतः---सर्वजातिषु चाण्डालाः, सर्वजातिषु ब्राह्मणाः। ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ॥२॥
कृषिवाणिज्यगोरक्षा, राजसेवां चिकित्सनम् । ये च विप्राः प्रकुर्वन्ति, न ते कौन्तेय ! ब्राह्मणाः ॥३॥ हिंसकोऽनृतवादी च, चौर्ययाभिरतश्च यः । परदारोपसेवी च, सेवे ते पतिता द्विजाः॥४॥ ब्रह्मचर्यतपोयुक्ताः, समानलोष्ठकांचनाः । सर्वभूतदयावन्तः, ब्राह्मणाः सर्वजातिषु ॥५॥ क्षान्त्यादिकगुणैयुक्तो, व्यस्तदण्डो निरामिषः । न हन्ति सर्वभूतानि, प्रथमं ब्रह्मलक्षणम् ॥६॥ सदा सर्वानृतं त्यक्त्वा, मिथ्यावादाद्विरज्यते । नानृतं च वदेद्वाक्य, द्वितीयं ब्रह्मलक्षणम् ॥७॥ सदा सर्व परद्रव्यं, बहिर्वा यदि वा गृहे । अदत्तं नैव गृह्णाति, तृतीयं ब्रह्मलक्षणम् ॥८॥ देवासुरमनुष्येषु, तिर्यग्योनिगतेषु च । न सेवते मैथुनं, यश्चतुर्थ ब्रह्मलक्षणम् ॥९॥ त्यक्त्वा कुटुम्बवासं तु, निर्ममो निःपरिग्रहः । युक्तश्चरति निःसंगः, पंचमं ब्रह्मलक्षणम् ॥१०॥ एवं लक्षणसम्पन्नः, ईदृशो यो भवेद्द्विजः । तमहं ब्राह्मणं मन्ये, शेषाः शूद्रा युधिष्ठिर ! ॥११॥ कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥१२॥ हरिणीगर्भसंभूतः, ऋष्यशृङ्गो महामुनिः। तपसा ब्राह्मणो ज.त-स्तस्माज्जातिरकारणम् ।।१३।। शुकीगर्भसंभूतः, शुको नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥१४॥ मंडूकीगर्भसंभूतो, मांडव्यश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥१५॥ उर्वशीगर्भसंभूतो विशिष्ठस्तु महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥१६॥
S*
Jan Educ
a
tional
For Personal & Private Use Only
www.dhishtrary.org