________________
कुमार०
प्रतिबोध
__इति दशधा साधूनां सामाचारीकल्पः । इत्याकर्ण्य राजा प्रमुदितो जैनाचारप्रशंसामकार्षीत् लज्जिताश्च द्विजाः सर्वेऽधोमुखा अभूवन् । _ अथ कतिभिर्दिनः राजा श्रीपत्तनमाजगाम । अन्यदा सभायां निषण्णे राजनि सपरिकरे कोऽपि मत्सरी प्राह राजनेते जैना वेदान्न मन्यन्ते अतो वेदबाह्या न नमस्कारार्हाः किमेतदिति पृष्टा राज्ञा श्रीसूरयः प्राहुः। राजन् ! यदि वेदेषु जीव
दयाधर्मोऽस्ति तर्हि सकलशास्त्रसंवादशुद्धं दयाधर्म कुर्वाणा वयं कथं वेदबाह्याः ।। - यदाहुः--"अहिंसा प्रथमो धर्मः, सर्वशास्त्रेषु विश्रुतः । यत्र जीवदया नास्ति, तत्सर्व परिवर्जयेत् ॥१॥ ध्रुवं प्राणिवधो यज्ञे, नास्ति यज्ञोऽहिंसकः । सर्वसत्त्वेष्वहिसैव, दयायज्ञो युधिष्ठिर! ॥२॥
स्वर्गश्च खलु इष्यते । संसारमोचकानां च, ततः स्वर्गोऽभिधीयते ॥३॥" जैनागमश्च-"सव्यभूयप्पभूयस्स समं भूयाय पासउ । पिहियासवस्स दन्तस्स पावं कम्मं न बंधइ ॥१॥
सव्वजीवा वि इच्छंति, जीवियं न मरिज्जियं । तम्हा पाणवहं घोरं, निग्गंन्था धज्जितेण"।।
अथ वेदेषु नास्ति जीवदया तर्हि वेदा न प्रमाणं, चार्वाकधर्मशास्त्रवत् दयाविकलत्वात् "किमस्माकं दयाधर्मनिष्ठानां तैःप्रयोजनम्" इति श्रुत्वा ते सर्वे तूष्णीभूत्वा स्थिताः । चमत्कृतो राजा दयाधर्मे मनो दधौ । अन्यदा विप्रैः सम्भूय प्रोक्तं देव ! “शूद्राः एते न प्रणामार्हाः" । श्रीगुरुभिरुक्तं-किं नाम तच्छद्रत्वं ब्राह्मणत्वं वा किमुच्यते । न तावदेकान्तेन जात्या
शूद्रत्वं ब्राह्मणत्वं वा भवति । M यदुक्तं-“शूद्रोऽपि शीलसंपन्नो, गुणवान् ब्राह्मणो मतः । ब्राह्मणोऽपि क्रियाहीनः, शुद्राऽपत्यसमो भवेत् ॥
Jain Educantematonai
For Personal & Private Use Only
www.amatbrary.org