________________
एतदाकर्ण्य राजा चमत्कृतोऽवादीत् अहो जैनागमगंभीरता जीवरक्षादक्षता च । ततः समधिकः श्रीजिनमतानु रागः समजनि नृपस्य ।
अथ राज्ञा श्रीगुरूणां हैमटंकलक्षं पुरो मुक्त्वा योगक्षेमकरणाय गृह्यतामित्युक्ते श्रीसूरिभिरूचे, सर्व दीयमानं विप्रा गृह्णन्ति न वयम् । राज्ञोचे भगवनेते सर्वेऽपि परदर्शनिनो मया दीयमानं सर्व गृह्णन्ति परं ब्रह्मचारिभिर्निग्रन्थैर्भवद्भिः कस्मात्किमपि नादीयते । सूरयः प्राहुः राजन् सर्वशास्त्रविरोधहेतुत्वात्पतिषिद्धं राजपिण्डम् । यतः स्मृतिः--
"अधीत्य चतुरो वेदान् , सांगोपांगान सलक्षणान् । शूद्रात्प्रतिग्रहं कृत्वा, खरो भवति ब्राह्मणः ॥१॥ खरो द्वादशजन्मानि, षष्टिर्जन्मानि शूकरः । श्वानः सप्ततियोनिश्च, इत्येवं मनुरब्रवीत् ॥२॥ राज्ञः प्रतिग्रहो घोरो, मधुस्वादविषोपमः । पुत्रमांसं वरं भुक्तं, न तु राजप्रतिग्रहः ॥३॥ राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिरः!। 'सटतामिव बीजानां, पुनर्जन्म न विद्यते" ॥४॥
महाभारते शांतपर्वण्युक्तं तथा जैनागमेऽपिसंनिहीगिहमत्तेय रायपिंडे किमिच्छए । संवाहणदंतपहोयणायसंपुच्छण देहपलोअणाय ॥१॥
एतत्सर्वं साधुनामनाचीर्ण"आचेलुक्कु उद्देसिय सिज्जायर रायपिण्ड किइकम्मे । वयजिट्ट पडिकमणे मासं पज्जोवसणकप्पे" ॥१॥
१ प्रत्यन्तरे दग्धानां.
XXXXXXXXXXXXXXXXXXXXXXXXXX
Jain Ed
m
ation
For Personal & Private Use Only
worOXIbrary.org