________________
कुमार०
प्रतिबोध प्रबंधः
॥ २४॥
इति प्रमाणाद्वयमेव वयमेव भक्ताः सूर्यस्य न चैते तत्त्वतः।
पयोदपटलैः छन्ने नाश्नंति रविमण्डले । अस्तंगते तु भुञ्जानाः, अहो भानोः सुसेवकाः॥१॥ व्यासेनापि प्रोक्तम्__ ये रात्रौ सर्वदाऽऽहारं वजर्यन्ति सुमेधसः। तेषां पक्षोपवासस्य फलं मासेन जायते ॥१॥
इति तन्मुखबंधे जाते कदाचिद्देवपूजाक्षणे सौधमागते मोहान्धकारतिरस्कारचन्द्र श्रीहेमचन्द्रे यशश्चंद्रगणिना रजोहरणेनासनपदंप्रमार्य तत्र कंबले निहितेऽज्ञाततत्त्वेन किमेतदिति नृपेण पृष्टाः श्रीगुरवः प्रोचुः 'राजन् ! कदाचिदिह कोऽपि जंतुर्भवति तदा तत्पीडापरिहाराशायासौ यत्नः सर्वजन्तुरक्षारूपत्वाद्धर्मरहस्यस्य । यदा प्रत्यक्षतया दृश्यते जंतुस्तदेवेदं युज्यते नाऽन्यथा वृथा प्रयासहेतुत्वादिति युक्तियुक्तां नृपोक्तिमाकर्ण्य श्रीगुरुभिरुक्तं राजन् ! यथा भवद्भिश्चौराद्यभावेऽपि नगररक्षार्थ प्रत्यहमारक्षकाः स्थाप्यन्ते कटकाभावेऽपि गजतुरगादिचमः श्रमाभ्यासं काराप्यते मा मुष्णन्तु नगरमिति तथा तत्रापि ज्ञेयम्। | राजव्यवहावद्धर्मव्यवहारः। तथा चागमः
"पाणेहिं संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ तित्थयरा रायाणो साहआरक्खिभंडगं च पुरं । तेण सरिसाय पाणातिग च रयणा भवो दंडो" ॥१॥ तथा धर्मसमुद्देशेऽप्युक्तम्--
"आत्मवत्सर्वजीवेषु कुशलवृत्तिचिंतनम् । धर्माधिगमनोपायः शक्तितस्त्यागतपसी च" ॥
Jan E
l
emational
For Persons & Private Use Only
wrandynybrary.org