SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ *KAXXXXXXX "विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्म न विचक्षणोऽपि । आकर्ण दीर्घोज्ज्वललोचनोऽपि, दीपं विना पश्यति नांधकारे" ॥१॥ महाकविप्रणीतत्वात्-"किं मित्रं यन्ननिवर्तयति पापात्". श्री सर्वज्ञशासने महाप्रभावनां ज्ञात्वा श्रीगुरुभिरप्रतिषिद्धं तद्वचनम् । ततो नृपस्तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन सार्वावसरं वेत्रिणामादिदेश । अथ तत्र यातायाते संजायमाने सूरीणां गुणग्रामस्तवं कुर्वत्युवर्वीपतौ पुरोधा इत्यभ्यधात् । अमीन नमस्कारार्हाः अजितेन्द्रियत्वात् । कथमिति राज्ञा पृष्टे प्राह"विश्वामित्रपरासरप्रभृतयो येऽचांबुपत्राशिनः। तेऽपि स्त्रीमुखपंकज सुललितं दृष्ट्वैव मोहं गताः॥ आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवाः। तेषामिन्द्रियनिग्रहः कथमहो! दंभः समालोक्यते" ॥ इति वचः श्रुत्वा श्रीसूरिरुचे । न चैवमाहारं आहारयन्ति मुनयःन चैकान्तेनाजितेन्द्रियत्वकारणमाहारः किन्तु मोहनीयकर्मणः प्रकृतिरपि तीव्रमंदमंदतरभेदा । तथा च "सिंहो बली द्विरदसूकरमांसभोजी, संवत्सरेण कुरुते रतमेकवारम् । पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः" ॥१॥ इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते नृपः प्रभुदितः। पुनः कियदिने गते नृपप्रत्यक्षं केनापि मत्सरिणाऽभाणि राजनैते जैनाः सूर्य न मन्यन्ते प्रत्यक्षदैवतम् । तत्र श्रीसूरिः पाह-- आधाम धामधामैव वयमेव स्वचेतसि । यस्यास्तव्यसने जाते, त्यजामो भोजनोदके ॥१॥ Jain Edudl e mational For Personal & Private Use Only www. ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy