SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ *KAXXXXXXX "विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्म न विचक्षणोऽपि । आकर्ण दीर्घोज्ज्वललोचनोऽपि, दीपं विना पश्यति नांधकारे" ॥१॥ महाकविप्रणीतत्वात्-"किं मित्रं यन्ननिवर्तयति पापात्". श्री सर्वज्ञशासने महाप्रभावनां ज्ञात्वा श्रीगुरुभिरप्रतिषिद्धं तद्वचनम् । ततो नृपस्तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन सार्वावसरं वेत्रिणामादिदेश । अथ तत्र यातायाते संजायमाने सूरीणां गुणग्रामस्तवं कुर्वत्युवर्वीपतौ पुरोधा इत्यभ्यधात् । अमीन नमस्कारार्हाः अजितेन्द्रियत्वात् । कथमिति राज्ञा पृष्टे प्राह"विश्वामित्रपरासरप्रभृतयो येऽचांबुपत्राशिनः। तेऽपि स्त्रीमुखपंकज सुललितं दृष्ट्वैव मोहं गताः॥ आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवाः। तेषामिन्द्रियनिग्रहः कथमहो! दंभः समालोक्यते" ॥ इति वचः श्रुत्वा श्रीसूरिरुचे । न चैवमाहारं आहारयन्ति मुनयःन चैकान्तेनाजितेन्द्रियत्वकारणमाहारः किन्तु मोहनीयकर्मणः प्रकृतिरपि तीव्रमंदमंदतरभेदा । तथा च "सिंहो बली द्विरदसूकरमांसभोजी, संवत्सरेण कुरुते रतमेकवारम् । पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः" ॥१॥ इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते नृपः प्रभुदितः। पुनः कियदिने गते नृपप्रत्यक्षं केनापि मत्सरिणाऽभाणि राजनैते जैनाः सूर्य न मन्यन्ते प्रत्यक्षदैवतम् । तत्र श्रीसूरिः पाह-- आधाम धामधामैव वयमेव स्वचेतसि । यस्यास्तव्यसने जाते, त्यजामो भोजनोदके ॥१॥ Jain Edudl e mational For Personal & Private Use Only www. ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy