SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कुमार ॥२२॥ ****& & प्रतिबोध देव! कौंकणात्प्रत्यावृत्तस्य पराभूतस्यांबडसेनापतेः सेनानिवेशोऽयमिति । तदीयलजया चमत्कृतो नृपश्चिंतयति स्म । अहो। प्रबंधः अस्य लजाशीलत्वम् । अत्रान्तरेऽवसरपाठकः पपाठ लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। . तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ ततोऽस्य सपादलक्षदानमदात् । पुनः प्रसादललितया दृशा आम्बडं संभाव्य तदऽपरैः बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं प्राहिणोत् । ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबंधे विरचिते तेनैव पथा सैन्यमुत्तार्य सावधानवृत्त्या सम्मुखमायातमल्लिकार्जुनसैन्येन सहासमसमरारंभे जायमाने हस्तिस्कंधारूढं वीरवृच्या मल्लिकार्जुनमेव रुरोध । द्वयोश्चिरं खड्गाखड्गि दृष्ट्वा मागधः पपाठ । "अभिमुखागतमार्गणधोरिणिध्वनितपल्लवितांयरगह्वरे। वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः" ॥१॥ ___ इति श्रुत्वा वद्धिंतोत्साह आंबडः सुभटो दंतिदंतमुसलसोपानेन कुंभस्थलमधिरुह्य माद्यदुद्दामरणरस प्रथमं त्वं प्रहर इष्टं वा दैवतं स्मर इति उच्चरन् घोरकरवालाहारात मल्लिकार्जुनं भूपीठे लोठयित्वा सामन्तेषु तन्नगरलुण्टनव्यापृतेषु केसरिकिशोर इव करेणुं तं लीलयैव जघान । तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यनृपाज्ञां दापयित्वा त्रिशती ॥२२॥ जालान् प्रज्वाल्य श्रीपत्तनमाजगाम । ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत । "शाटी शृंगारकोट्याख्या, पटं माणिक्यनामकं । पापक्षयंकरं हारं, मुक्ताशुक्तिं विषापहाम् ॥१॥ & Jan Edo t ematonai For Persons & Private Use Only wolibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy