SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ एतदाकर्ण्य सोष्माणं राजानमधिगम्यागाधबुद्धिनिधिर्मागधः पुनरभ्यधात् । "रवेरेवोदयः श्लाध्यः कोऽन्येषामुदयग्रहः। न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति" ॥१॥ इति मागधवचनरुद्दीपितो राजाऽवदत् । अहो अविज्ञाताहंकारस्वरूपोऽयं भूपः । यतः“अहंकारे सति प्रौढे, वदत्येवं गुणावलीः । अहंकारे पतिष्यामि, समा याता तवान्तिके" ॥१॥ ततस्तदसहिष्णुतया स्वसभां निभालयन् नृपचित्तविदा मंत्रिणा श्रीआंबडेन कृतं ललाटे करसंपुटं दृष्ट्वा चमत्कृतो भूपतिः समाविसर्जनानन्तरं अञ्जलिबंधस्य कारणं अपृच्छत् । ततो मंत्रिपुत्रोऽवदत् । देव ! यदस्यां सभायां स कोऽपि सुभटोस्ति यो मिथ्याभिमानं नृपाभासं चतुरंगनृपवन्मल्लिकार्जुनं जयतीति युष्मदाशयावदा मया स्वाम्यादेशक्षमेणायम| जालिबन्धश्चक्रे इति तद्वचः श्रुत्वा राजाऽवदत् । अहो अस्य चातुर्यम् ।। "उदीरितोऽर्थः पशुनापि गृह्यते । हयाश्च नागाश्च वहन्ति नोदिताः। अनुक्तमप्यूह्यति पण्डितो जनः, परेङ्गितज्ञानपला हि बुद्धयः" ॥१॥ ततस्तद्वचःसमनन्तरमेव नृपस्तं प्रति प्रयाणाय दलनायकं कृत्वा पंचांगप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज। स चाविच्छिन्नप्रयाणैः कौंकणदेशमासाद्य दुरवारिपूरां कालम्बिनिनाम्नी नदीमुत्तीर्य परस्मिन् कूले गते सैन्ये तं संग्रामासनं विमृश्य मल्लिकार्जुनः सोभिसारेण प्रहरन् तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णच्छत्रालंकृतमौलिः कृष्णगुडुरेषु निवसन् श्रीपत्तनबहिःप्रदेशे स्थितः। अथ विजयदशमीदिने राजपाटकागतेन श्रीचौलुक्यभूभुजा विलोक्य कस्याऽसौ सेनानिवेशः? इति पृष्ट कश्चिदुवाच । BAREEKEXX Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy