________________
कुमार
प्रतिबोध प्रबंध:
ततः श्रीमत्कान्हडदेवमुख्यैः समस्तैरपि पंचांगचुम्बितभूतलं नमोऽकारि । स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्तिं स्वयं कुर्वन् राज्यवृद्धानां प्रधानानामरोचमानस्तैः संभूय व्यापादयितुं व्यवसितः । सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभकर्मणा प्रेरितेन केनाप्याप्तेन विज्ञापितस्तद् वृतान्तः तं प्रदेशं विहाय द्वारान्तरेण वर्ष प्रविष्टस्तदनु तान् प्रधानान् यमपुरीं प्रति माहिणोत् । स भावुकमण्डलेश्वरः श्यालकसंबंधात् राजस्थापनाचार्यत्वात् राजपाटिकायां सर्वावसरेषु प्राक्तनदुःखावस्था समर्मतया जल्पति स्म । राज्ञोक्तं त्वयाऽतःपरं एवंविधं सभासमक्षं न वाच्यम् । विजने तु यदृच्छया वाच्यम् । यतः-आज्ञाभंगो नरेन्द्राणां, महतां मानखण्डनम् । मर्मवाक्यं च लोकानांमशस्त्रवध उच्यते ॥१॥ __ याचको वंचको व्याधिः पंचत्वं मर्मभाषकः। योगिनामप्यमी पंच, प्रायेणोद्वेगहेतवः ॥२॥
. इति राज्ञोपरुद्ध उत्कटतया अवज्ञाया वशात् च रे ! अनात्मज्ञ! इदानीमेव पदं त्यजसि इति भाषमाणः औषधमिव तद्वचःपथ्यमपि न जग्राह । नृपस्तदाकारसंवरेणापहवं विधायापरस्मिन् दिवसे नृपसंकेतितैः मल्लैस्तदंगभंगं कृत्वा नयनयुगलमुद्धृत्य ततस्तं तदावासे प्रस्थापयामास । ग्रन्थान्तरेऽप्युक्तम् "काकेशोचमित्यादि" यतः
'शास्त्रं सुनिश्चलधिया परीचिन्तनीयम्।। आदौ मयैवायमदीपि नूनं न तदहेन्मामवहिलितोऽपि । इति भ्रमादंगलिपर्वणाऽपि स्पृश्येत नो दीप इवाऽवनीपः ॥१॥
१ शास्त्रं सुनिश्चलधिया परिचिन्तनीयमाराधितोऽपि नपति ! परिशन्नीयः ।
आत्मीकृताऽपि युवतिः परिरक्षणीया, शास्त्रे नपे च युवतौ च कुतः स्थिरत्वम् ॥ intematonai
For Personal & Private Use Only
Jan Edw
i
w
brary.org